SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ अप्रामाण्यमननस्याऽपि स्वारसिकस्य ग्रहणाद् बौद्धताडिते ब्राह्मणे वेदाऽप्रामाण्याऽभ्युपगन्तरि नाऽव्याप्तिः । 'अप्रमाकरणत्व-प्रमाकरणत्वाऽभावयोश्च द्वयोरपि प्रामाण्यविरोधित्वेन सङ्ग्रहाद् नैकग्रहेऽन्याऽभ्युपगन्तर्यतिव्याप्तिः । अत्राऽऽह- इति चेत् ? तदप्रामाण्यमन्तरि = वेदाऽप्रामाण्याऽभ्युपगन्तरि ।।१८।। अजानति च वेदत्वमव्याप्तं चेद्विवक्ष्यते । वेदत्वेनाऽभ्युपगमस्तथापि स्याददः२ किल ।।१९।। 'अजानति चेति । वेदत्वं च वेदे अजानति ब्राह्मणे अव्याप्तं लक्षणमेतत्, तेन वेदाऽप्रामाण्याऽभ्युपगमात् ।। ___अथ चेद् = यदि वेदत्वेनाऽभ्युपगमो विवक्ष्यते, वेद एव वेदत्वमजानतश्च न वेदत्वेनाऽप्रामाण्याऽभ्युपगमः किन्तु ‘इदमप्रमाणमिति इदंत्वादिनैवेति नाऽव्याप्तिः । तथापि (स्याद्) अदः = एतल्लक्षणं किल ।।१९।। ब्राह्मणः पातकाप्राप्तः काकभावं तदापि हि । व्याप्नोतीशं च नोत्कृष्टज्ञानावच्छेदिका तनुः ।।२०।। ब्राह्मण इति । यदा ब्राह्मणः पातकात् = काकजन्मनिबन्धनाद् दुरितात् काकभावं ।।।।२६३ ।। १. मुद्रितप्रतौ 'अप्रमाकरणत्वाभावयोः' इति त्रुटितोऽशुद्धश्च पाठः । २. हस्तादर्श 'स्यादिदः' इत्यशुद्धः पाठः । ३. हस्तादर्श 'अज्ञानति' इत्यशुद्धः पाठः । का १५/२० Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy