SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ में 24 वेदप्रामाण्यमन्तृत्वं बौद्धे ब्राह्मणताडिते । अतिव्याप्तं द्विजेऽव्याप्तं स्वापे स्वारसिकं च तत् ॥१७॥ वेदेति । “वेदप्रामाण्यमन्तृत्वं” एतावदेव शिष्टलक्षणं ब्राह्मणताडिते बौद्धेऽतिव्याप्तं, तेनाऽपि "वेदाः प्रमाणं" इत्यभ्युपगमात् । स्वारसिकं च तत् = वेदप्रामाण्यमन्तृत्वं द्विजे = ब्राह्मणे (स्वापे) अव्याप्तम् । __ अयं भावः-स्वारसिकत्वविशेषणेन बौद्धेऽतिव्याप्तिनिरासेऽपि 'स्वारसिकवेदप्रामाण्यमन्तृत्वं' यदाकदाचिद्वाच्यं सर्वदा वा ? आद्ये बौद्धे एवातिव्याप्तितादवस्थ्यं, तस्याऽपि जन्मान्तरे वेदप्रामाण्याऽभ्युपगम ध्रौव्यात् । अन्त्ये च शयनादिदशायां वेदप्रामाण्याऽभ्युपगमाऽभाववति ब्राह्मणेऽव्याप्तिरिति ।।१७।। तदभ्युपगमाद्यावन्न तद्व्यत्ययमन्तृता । तावच्छिष्टत्वमिति चेत्तदप्रामाण्यमन्तरि ॥१८॥ तदिति । तस्य = वेदप्रामाण्यस्य अभ्युपगमात् ( तदभ्युपगमात्) यावन्न तद्व्यत्ययस्य = वेदाऽप्रामाण्यस्य मन्तृता = अभ्युपगमः (=तद्व्यत्ययमन्तृता) तावच्छिष्टत्वम् । शयनादिदशायां च वेदाऽप्रामाण्याऽनभ्युपगमा ब्राह्मणे नाऽव्याप्तिरिति भावः । १. हस्तादर्श .प्रामाणम...' इत्यशुद्धः पाठः । २. हस्तादर्श'...भ्युपगम्यध्रौ..' इत्यशुद्धः पाठः । ३. हस्ताद” 'अन्ते' इति पाठः । ४. हस्तादर्श मंत्रितं' इत्यशुद्धः पाठः । ५. हस्तादर्श 'शिष्टस्यं' इत्यशुद्धः पाठः । ६. ...भ्युपमाद्' इत्यशुद्धः पाठो हस्तादर्श । १५/१८ ।।२६२। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy