SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ।। महापीठवत् ।।१५।। अंशतः क्षीणदोषत्वाच्छिष्टत्वमपि युक्तिमत् । अत्रैव हि परोक्तं तु तल्लक्षणमसङ्गतम् ।।१६।। अंशत इति । अंशतो = देशतः क्षीणदोषत्वाद् = दोषक्षयवत्त्वात् शिष्टत्वमपि अत्रैव = सम्यग्दृष्टावेव युक्तिमत् = न्यायोपेतं, "क्षीणदोषः पुरुषः शिष्टः" इतिलक्षणस्य निर्बाधत्वात् । सर्वदोषक्षयेण सर्वथा शिष्टत्वस्य सिद्धे केवलिनि वा विश्रान्तत्वेऽपि सम्यग्दृष्टेरारभ्य देशतो विचित्रस्य शिष्टत्वस्याऽन्यत्राऽपि' अनपायत्वात् । न चैवं शिष्टत्वस्याऽतीन्द्रियत्वेन दुर्ग्रहत्वाच्छिष्टाचारेण प्रवृत्त्यनापत्तिरिति शङ्कनीयं, प्रशम-संवेगादिलिङ्गस्तस्य सुग्रहत्वात् । ___ 'दोषा रागादय एव तेषां च दिव्यज्ञानादर्वाक् न क्षयमुपलभामहे ।। ___ न वा तेषु निरवयवेष्वंशोऽस्ति, येनांऽशतः तत्क्षयो वक्तुं शक्यतेति' चेत् ? न, अत्यु चितप्रवृत्ति-संवेगादिलिङ्गकप्रबलतदुपक्षयस्यैवांऽशतो दोषक्षयाऽर्थत्वात्, आत्माऽनुग्रहोप१५/१६ घातकारित्वेन चयापचयवतः सावयवस्य कर्मरूपदोषस्य प्रसिद्धत्वाच्च इत्यन्यत्र विस्तरः । हि निश्चितं परोक्तं तु = द्विजन्मोद्भावितं तु तस्य = शिष्टस्य लक्षणं (तल्लक्षणं) असङ्गतं = अयुक्तम् ।।१६।। तथाहि - १. मुद्रितप्रतिषु 'अपि' नास्ति । २. मुद्रितप्रतौ 'चपोचय...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'सावयस्य' इत्यशुद्धः पाठः । (॥२६१। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy