SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ स म्य ग्दृ ष्टि has द्वा त्रिं शि का १५/१५ Jain Education International मोक्ष-बीजाऽऽधानादिरूपं, न त्वात्मम्भरिरपि, स = 'वरबोधिमान् तीर्थकृत्त्वं अवाप्नोति = लभते परं = प्रकृष्टं कल्याणसाधनं भव्यसत्त्वशुभप्रयोजनकारि । स्वजनादिभवोद्दि-धीर्षया सद्बोधिप्रवृत्तिस्तु गणधरपदसाधनं भवतीति द्रष्टव्यम् । यत उक्तं-" चिन्तयत्येवमेवैतत्स्वजनादिगतं तु यः । तथाऽनुष्ठानतः सोऽपि धीमान् गणधरो भवेत् ।। " ( योगबिन्दु २८९ ) ।।१४।। संविग्नो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थसम्प्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली ।। १५ ।। संविग्न इति | संविग्नः " = "तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे देवे रागद्वेषमोहादिमुक्ते । साधौ सर्वग्रन्थसन्दर्भहीने संवेगोऽसौ निश्चलो योऽनुरागः || ” ( योगबिन्दु - २९० श्लोकवृत्तौ उद्धृतः) इतिकाव्योक्तलक्षणसंवेगभाक् भवनिर्वेदात् = संसारवैरस्यात् आत्मनिःसरणं तु जरा-मरणादिदारुणदहनात्स्वनिष्कासनं पुनः यः 'चिन्तयती 'ति गम्यते । = = आत्मार्थसम्प्रवृत्तः = स्वप्रयोजनमात्रप्रतिबद्धचित्तः असौ सदा = निरन्तरं स्याद् भवेत् मुण्डकेवली द्रव्य-भावमुण्डनप्रधानस्तथाविधबाह्याऽतिशयशून्यः केवली पीठ१. मुद्रितप्रतौ 'सद्बोधिमान्' इति पाठान्तरम् । २. मुद्रितप्रतौ र्षणया' इति पाठ: । ३. हस्तादर्शे 'निस्मरणं' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'यत्' इत्यशुद्धः पाठः । ५. हस्तादर्शे 'संविग्नः धर्मे' इति त्रुटितः पाठः । ६. मुद्रितप्रतौ 'भवनैर्गुण्यात्' इति पाठः । परं मूलानुसारेण यः पाठः शब्दतोऽप्युचितः सोऽस्माभिर्योजितोऽत्र । ७. मुद्रितप्रतौ प्रवत्त' इत्यशुद्धः पाठः । ८ मुद्रितप्रतौ 'भवेत' इत्यशुद्धः पाठः । = For Private & Personal Use Only ।।२६० । www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy