SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ म 2 बोधीति । बोधिः = सम्यग्दर्शनं तेन प्रधानः (बोधिप्रधानः) सत्त्वो वा सतां = साधूनां हन्त इत्यामन्त्रणे बोधिसत्त्वो मतः = इष्टः । यदुक्तं- “यत्सम्यग्दर्शनं बोधिस्तत्प्रधानो महोदयः। सत्त्वोऽस्तु बोधिसत्त्व'स्तद्धन्तैषोऽन्वर्थतोऽपि हि ।।” (योगबिन्दु २७३) वा = अथवा सद्बोधिः = तीर्थकरपदप्रायोग्यसम्यक्त्वसमेतः तथाभव्यत्वतो भावितीर्थकृद् = यः तीर्थकृद् भविष्यति स बोधिसत्त्वः । तदुक्तं “वरबोधिसमेतो वा तीर्थकृद् यो भविष्यति। तथाभव्यत्वतोऽसौ वा बोधिसत्त्वः सतां मतः ।।” (योगबिन्दु २७४) भव्यत्वं नाम सिद्धिगम नयोग्यत्वं अनादिपारिणामिको भावः । तथाभव्यत्वं चैतदेव कालनैयत्यादिना प्रकारेण वैचित्र्यमापन्नं । एतभेद एव च बीजसिद्ध्यादिफलभेदोपपत्तिः। अन्यथा तुल्यायां योग्यतायां सहकारिणोऽपि तुल्या एव भवेयुः तुल्ययोग्यतासामर्थ्याऽऽक्षिप्तत्वातेषामिति सद्बोधेर्योग्यताभेद एव पारम्पर्येण तीर्थकरत्वनिबन्धनमिति भावनीयम् ।।१३।। तत्तत्कल्याणयोगेन कुर्वन सत्त्वार्थमेव सः । तीर्थकृत्त्वमवाप्नोति परं कल्याणसाधनम् ।।१४।। तत्तदिति । तस्य तस्य कल्याणस्य परिशुद्धप्रवचनाधिगमाऽतिशायिधर्मकथाऽविसंवादिनिमित्तादिलक्षणस्य योगेन = व्यापारेण (तत्तत्कल्याणयोगेन) कुर्वन = विदधानः सत्त्वार्थमेव १. 'तस्माद्धन्तेति पूर्ववत्' इति पाठो मुद्रितप्रती हस्तादर्श च वर्तते । परमस्माभिः योगबिन्दुश्लोकानुसारेणात्र पाठो योजितः। २. हस्तादर्श 'तथाभव्यतो' इति पाठः । ३. हस्तादर्श ‘भावितीर्थकृद्' इति पदं नास्ति । ४. 'गयन' इति मुद्रितप्रतावशुद्धः पाठः । ५. हस्तादर्श 'व्यापारस्य' इत्यशुद्धः पाठः । का १५/१४ ॥२५९।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy