________________
开可ㄛ従百分肏和
स
म्य
ष्टि
द्वा
शि
का
१५/१३ |
Jain Education International
इत्युक्तेः कायपात्येव चित्तपाती न स स्मृतः ॥ ११ ॥ तप्तेति- ‘तप्तलोहे यः पदन्यासस्तत्तुल्या (तप्तलोहपदन्यासतुल्या), अतिसकम्पत्वात्, | वृत्तिः = कायचेष्टा क्वचिद् गृहारम्भादौ । 'यदि परं' इत्युक्तेः = इत्थंवचनात् कायपात्येव सम्यग्दृष्टिः, न चित्तपाती स्मृतः । इत्थं च कायपातिन एव बोधिसत्त्वा इति लक्षणमत्रोपपन्नं भवति । तदुक्तं - " कायपातिन एवेह ' बोधिसत्त्वाः परोदितम् । न चित्तपातिनस्तावदेतदत्राऽपि युक्तिमत् ।। " ( योगबिन्दु २७१) ।। ११ ।। परार्थरसिको धीमान् मार्गगामी महाऽऽशयः ।
गुणरागी तथेत्यादि सर्वं तुल्यं द्वयोरपि ।। १२ ।।
=
परार्थेति । परार्थरसिकः परोपकारबेद्धचित्तः, धीमान् = बुद्धयनुगतः, मार्गगामी कल्याणप्रापकपथयायी, महाशयः = स्फीतचित्तः, गुणरागी = गुणानुरागवान्, तथा इति बोधिसत्त्वगुणान्तरसमुच्चयार्थः, इत्यादि शास्त्रान्तरोक्तं सर्वं तुल्यं = समं द्वयोरपि सम्यग्दृष्टिबोधिसत्त्वयोः ।। १२ ।। अन्वर्थतोऽपि तुल्यतां दर्शयति
बोधिप्रधानः सत्त्वो वा सद्द्बोधिर्भावितीर्थकृत् । तथाभव्यत्वतो बोधिसत्त्वो हन्त सतां मतः
स =
=
=
।। १३ ।।
* ..
१. मुद्रितप्रतौ 'एवेव' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'बद्ध' इति नास्ति । हस्तादर्शे नास्ति ।
For Private & Personal Use Only
• चिह्नद्वयमध्यवर्ती पाठो
।।२५८।
www.jainelibrary.org