________________
R
परिणामः । बाह्याऽसदनुष्ठानस्य प्रायः साम्येऽपि बन्धाऽल्पत्वस्य सुन्दरपरिणामनिबन्धनत्वादिति भावः । तदुक्तं"भिन्नग्रन्थेस्तृतीयं तु सम्यग्दृष्टेरतो हि न । पतितस्याप्यतो बन्धो ग्रन्थिमुल्लङ्घ्य देशितः।। एवं सामान्यतो ज्ञेयः परिणामोऽस्य शोभनः । मिथ्यादृष्टेरपि सतो महाबन्धविशेषतः ।। सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः । अभिन्नग्रन्थिबन्धोऽयं न त्वेकाऽपीतरस्य तु ।। तदत्र परिणामस्य भेदकत्वं नियोगतः । बाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि ।।" (योगबिन्दु २६६-७-८-९) “बंधेण न वोलइ कयाई"(श्रावकप्रज्ञप्ति-३३) इत्यादिवचनानुसारिणां सैद्धान्तिकानां मतमेतत्। कार्मग्रन्थिकाः पुनरस्य मिथ्यात्वप्राप्तावुत्कृष्टस्थितिबन्धमपीच्छन्ति, तेषामपि मते तथाविधरसाऽभावात्तस्य शोभनपरिणामत्वे न विप्रतिपत्तिरिति ध्येयम् ।।९।।
- एवं च यत्परैरुक्तं बोधिसत्त्वस्य लक्षणम् ।
विचार्यमाणं सन्नीत्या तदप्यत्रोपपद्यते ।।१०।। एवं चेति । एवं च - भिन्नग्रन्थेमिथ्यात्वदशायामपि शोभनपरिणामत्वे च यत परै = सौगतैः बोधिसत्त्वस्य लक्षणमक्तं तदपि सन्नीत्या = मध्यस्थवृत्त्या विचार्यमाणं अत्र सम्यग्दृष्टौ उपपद्यते ।।१०।।
तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि । १. मुद्रिते योगबिन्दुग्रन्थे '...बन्धो यद्...' इति पाठः । २. मुद्रितप्रतौ 'त्वेको...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'बंधेणं' इति पाठः।
१५/१०
।।२५७।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org