________________
स
开可百分何而
म्य
दृ
ष्टि
द्वा
त्रिं
शि
का
१५/९
Jain Education International
स्यादीदृक्करणे चाऽन्त्ये सत्त्वानां परिणामतः । त्रिधा यथाप्रवृत्तं तदपूर्वं चानिवर्ति च ॥ ७ ॥
स्यादिति । ईदृग् = उपदर्शितलक्षणं सम्यक्त्वं चाऽन्त्ये करणे " जाते सतीति गम्यं स्याद् = भवेत् । तत् करणं सत्त्वानां = प्राणिनां परिणामतः त्रिधा = त्रिप्रकारं ( १ ) यथावृत्तं ( २ ) अपूर्वं च ' (३) अनिवर्ति चेति ।।७।।
ग्रन्थिं यावद् भवेदाद्यं द्वितीयं तदतिक्रमे । भिन्नग्रन्थेस्तृतीयं तु योगिनाथैः प्रदर्शितम् ।।८ ।। ग्रन्थिमिति । आद्यं = यथाप्रवृत्तकरणं ग्रन्थिं यावद् भवेत् । द्वितीयं = अपूर्वकरणं तदतिक्रमे = ग्रन्थ्युल्लङ्घने क्रियमाणे । तृतीयं तु अनिवर्तिकरणं भिन्नग्रन्थेः कृतग्रन्थिभेदस्य योगिनाथैः = तीर्थकरैः प्रदर्शितम् ||८||
=
पतितस्याऽपि नाऽमुष्य ग्रन्थिमुल्लङ्घ्य बन्धनम् । स्वाशयो बन्धभेदेन सतो मिथ्यादृशोऽपि तत् ।। ९॥
=
पतितस्यापीति । अमुष्य = भिन्नग्रन्थेः पतितस्याऽपि तथाविधसङ्क्लेशात् सम्यक्त्वात् परिभ्रष्टस्याऽपि न = नैव ग्रन्थिं = ग्रन्थिभेदकालभाविनीं कर्मस्थितिं उल्लङ्घ्य = अतिक्रम्य सप्ततिकोटिकोट्यादिप्रमाणस्थितिकतया बन्धनं ज्ञानावरणादिपुद्गलग्रहणम् । तत् = तस्माद् मिथ्यादृशोऽपि सतो भिन्नग्रन्थेः बन्धभेदेन = अल्पस्थित्या कर्मबन्धविशेषेण स्वाशयः = १. मुद्रितप्रतौ 'च' नास्ति । २. 'याघ' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
शोभनः
For Private & Personal Use Only
=
।।२५६।
www.jainelibrary.org