SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ पूयिकाद्यपि यद् भुङ्क्ते घृतपूर्णप्रियो द्विजः ।।५।। तदिति । तदलाभेऽपि = कथञ्चिदन्यथाप्रवृत्त्या चारित्राऽप्राप्तावपि तद्रागबलवत्त्वं = चारित्रेच्छाप्राबल्यं स्वहेतुसिद्धं न = नैव दुर्वचं = दुरभिधानं, यद् = यस्मात्तथाविधविषमप्रघट्टकवशात्, पूयिकाद्यपि पूयं नाम कुथितो रसस्तदस्यास्तीति पूयिकं, आदिशब्दाद्रूक्षं पर्युषितं च वल्लचनकादि, किं पुनरितरदित्यपिशब्दार्थः, घृतपूर्णाः प्रियाः = वल्लभा यस्य स तथा (=घृतपूर्णप्रियो) द्विजो = ब्राह्मणो भुंक्ते = अश्नाति । यदव द्विजग्रहणं कृतं तदस्य जातिप्रत्ययादेव अन्यत्र भोक्तुमिच्छाया अभावादिति । अन्येच्छाकालेऽपि प्रबलेच्छाया वासनात्मना न नाश इति तात्पर्यम् ।।५।। गुरुदेवादिपूजाऽस्य त्यागात्कार्यान्तरस्य च । भावसारा विनिर्दिष्टा निजशक्त्यनतिक्रमात् ।।६।। ___ गुर्विति । अस्य = सम्यग्दृशः गुरुदेवादिपूजा च कार्यान्तरस्य = त्याग-भोगादिकरणीयस्य त्यागात् = परिहारात्, (निजशक्त्यनतिक्रमात=) निजशक्तेः स्वसामर्थ्यस्यानतिक्रमात् अनिगूहनात् भावसारा = भोक्तुः स्त्रीरत्नगोचरगौरवादनन्तगुणेन बहुमानेन प्रधाना विनिर्दिष्टा = प्ररूपिता परमपुरुषैः ।।६।। १. हस्तादर्श 'तरला...' इत्यशुद्धः पाठः । २. हस्तादर्श ...पूर्णा प्रि...' इत्यशुद्धः पाठः । ३. 'अनतिलंघनात्' इति हस्तादर्शादौ पाठः । परं मूलानुसारेणात्र 'अनतिक्रमात्' इति पाठः सम्यक् । १५/६ (1॥२५५।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy