SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 44 छ 2 = तत्सदृशी (=सुप्तेशकथार्थविषयोपमा) असम्बद्धतत्तज्ज्ञानलवफलायास्तस्या 'दौर्विदग्ध्य। बीजत्वात् ।।२।। अप्राप्ते भगवद्वाक्ये धावत्यस्य मनो यथा । विशेषदर्शिनोऽर्थेषु प्राप्तपूर्वेषु नो तथा ॥३॥ अप्राप्त इति । अस्य = 'सम्यग्दृशः अप्राप्ते = पूर्वमश्रुते भगवद्वाक्ये = वीतरागवचने यथा मनो धावति = श्रोतुमनुपरतेच्छं भवति तथा विशेषदर्शिनः सतः प्राप्तपूर्वेषु अर्थेषु = धन-कुटुम्बादिषु न धावति विशेषदर्शनेनाऽपूर्वत्वभ्रमस्य दोषस्य चोच्छेदात् ।।३।। धर्मरागोऽधिको भावाद् भोगिनः स्त्र्यादिरागतः । प्रवृत्तिस्त्वन्यथापि स्यात्कर्मणो बलवत्तया ।।४।। ___धर्मराग इति । धर्मराग = चारित्रधर्मस्पृहारूपः अधिकः = प्रकर्षवान् भावात् = अन्तःकरणपरिणत्याः भोगिनो = भोगशालिनः स्त्र्यादिरागतो = भामिन्याद्यभिलाषात्। प्रवृत्तिस्तु = कायचेष्टा तु अन्यथाऽपि = चारित्रधर्मप्रातिकूल्येनाऽपि व्यापारादिना स्यात्, कर्मणः = चारित्रमोहनीयस्य बलवत्तया = नियतप्रबलविपाकतया ।।४।। तदलाभेऽपि तद्रागबलवत्त्वं न दुर्वचम् । १. 'दौर्वेद' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. हस्तादर्श 'सदृश' इति पाठान्तरम् । ३. हस्तादर्श 'सप्तितः' इत्यशुद्धः पाठः । ४. 'भावतो' इति मूलानुसारेणाऽशुद्धः पाठो मुद्रितप्रतो । ई २५४। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy