________________
॥ अथ सम्यग्दृष्टिद्वात्रिंशिका ॥१५॥ अपुनर्बन्धकोत्तरं सम्यग्दृष्टिर्भवतीति तत्स्वरूपमाह
लक्ष्यते ग्रन्थिभेदेन सम्यग्दृष्टिः स्वतन्त्रतः ।
शुश्रूषा-धर्मरागाभ्यां गुरुदेवादिपूजया ॥१॥ लक्ष्यत इति । ग्रन्थिभेदेन = अतितीव्रराग-द्वेषपरिणामविदारणेन स्वतन्त्रतः = सिद्धान्तनीत्या सम्यग्दृष्टिः लक्ष्यते = सम्यग्दर्शनपरिणामाऽऽत्मनाऽप्रत्यक्षोऽप्यनुमीयते ।
शुश्रूषा-धर्मरागाभ्यां तथा गुरुदेवादिपूजया त्रिभिरेतैर्लिंगैः । यदाह- "शुश्रूषा धर्मरागश्च गुरुदेवादिपूजनम् | यथाशक्ति विनिर्दिष्टं लिङ्गमस्य महात्मभिः।।” (योगबिन्दु २५३)।।१।।
भोगिकिन्नरगेयादिविषयाऽऽधिक्यमीयुषी ।
शुश्रूषाऽस्य न सुप्तेशकथाऽर्थविषयोपमा ॥२॥ ___ भोगीति । भोगिनो = यौवन-वैदग्ध्य-कान्तासन्निधानवतः कामिनः किन्नरादीनां गायकविशेषाणां गेयादौ = गीतवर्णपरिवर्ताऽभ्यासकथाकथनादौ विषयः = श्रवणरसस्तस्मादाधिक्यं = अतिशयं (=भोगिकिन्नरगेयादिविषयाऽऽधिक्यं) ईयुषी = प्राप्तवती, किन्नरगेयादिजिनोक्त्योर्हेत्वोस्तुच्छत्वमहत्त्वाभ्यामतिभेदोपलम्भात्, अस्य = सम्यग्दृष्टेः शुश्रूषा भवति। न परं सुप्तेशस्य = सुप्तनृपस्य कथार्थविषयः सम्मुग्धकथार्थश्रवणाऽभिप्रायलक्षणः तदुपमा १. हस्तादर्श ...दारेणेन' इत्यशुद्धः पाठः । २. हस्तादर्श '..लक्षः' इति पाठः ।
१५/२
२५३।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org