________________
भभ भभक 4444
।। सन्निभम्), शुभाऽनुबन्धसारत्वात् ।।३१।।
तत्तत्तन्त्रोक्तमखिलमपुनर्बन्धकस्य तु ।
अवस्थाभेदतो न्याय्यं परमानन्दकारणम् ।।३२। तत्तदिति । तत्तत्तन्त्रोक्तं = कापिल-सौगतादिशास्त्रप्रणीतं मुमुक्षुजनयोग्यमनुष्ठानं अखिलं = समस्तं अपुनर्बन्धकस्य तु अवस्थाभेदतो = दशावैचित्र्यात् न्याय्यं = युक्तम्, निवृत्ताऽसद्ग्रहत्वेन सद्ग्रहप्रवृत्तत्वेन च परमानन्दस्य = प्रशमसुखस्य कारणं (= परमानन्दकारणम्)। ___अनेकस्वरूपाऽभ्युपगमे ह्यपुनर्बन्धकस्य किमप्यनुष्ठानं कस्यामप्यवस्थायां प्रशान्तवाहितां सम्पादयतीति । तदुक्तं- “अपुनर्बन्धकस्यैवं सम्यग्नीत्योपपद्यते । तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात् ।।” (योगबिंदु.२५१) इति ।।३२।।
।। इति अपुनर्बन्धकद्वात्रिंशिका ।।१४।।
।।२५२
१४/३२
१. 'च' इति मूलादर्श मुद्रितप्रतौ च । परं व्याख्यानुसारेणात्र 'तु' इति पाठो युक्तः । हस्तादर्शेऽपि लभ्यते तथैव ।
Jain Education International
For Privale & Personal Use Only
www.jainelibrary.org