________________
ल
26 to
पुनरुत्तरकाल इत्यपिशब्दार्थः, श्रूयते = निशम्यते शास्त्रेषु अत्युचिता = लोकानामतिश्लाघनीया क्रिया प्रशस्तमाहात्म्यलाभलक्षणा ।
यत एवं पठ्यते- “जणणी सव्वत्थवि णिच्छएसु सुमइत्ति तेण सुमई जिणो" (आवश्यक नियुक्ति १०९३)। तथा- “गब्भगए जं जणणी जाय सुधम्मे तेण धम्मजिणो" (आवश्यक नियुक्ति १०९९)। तथा- “जाया जणणी जं सुव्वयत्ति मुणिसुव्वओ तम्हा" (आवश्यक नियुक्ति ११०३) इत्यादि । इदं गर्भावस्थायामुक्तम् । उत्तरकालेऽप्यत्युचितैव तेषां क्रिया। यत उक्तं- “औचित्याऽऽरम्भिणोऽक्षुद्राः प्रेक्षावन्तः शुभाऽऽशयाः। अवन्ध्यचेष्टाः कालज्ञा 'योगधर्माऽधिकारिणः ।।" (योगबिन्दु २४४) इति । तदेवंसिद्धः सद्योगाऽऽरम्भक इतरेभ्यो विलक्षणः। स चाऽऽत्मादिप्रत्ययमपेक्षत एवेति ।।३०।। अथ विषय-स्वरूपाऽनुबन्धशुद्धिप्रधानेषु किं कस्य सम्भवतीत्याह
सर्वोत्तमं यदेतेषु भिन्नग्रन्थेस्तदिष्यते ।
फलवद्रुमसद्बीजप्ररोहोद्भेदसन्निभम् ॥३१॥ ___ सर्वोत्तममिति । यदेतेषु = उक्ताऽनुष्ठानेषु सर्वोत्तमं = अव्यभिचारिफलं तद् | भिन्नग्रन्थेरिष्यते। फलवतः = फलप्राग्भारभाजो द्रुमस्य न्यग्रोधादेः सद् = अवन्ध्यं यद्
बीजं तस्य प्ररोहोभेदः = अङ्कुरोद्गमः तत्सन्निभं (=फलवद्रुमसद्बीजप्ररोहोभेद। १. मुद्रितप्रतौ 'योगमार्गा...' इत्यशुद्धः पाठः । योगबिन्दुग्रन्थानुसारेणाऽस्माभिः शुद्धः पाठो योजितः ।
||२५१ ।।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org