SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ भी कभम 444 सदिति । सद्योगाऽऽरम्भकस्त = सानुबन्धयोगाऽऽरम्भक एव एनं = आत्मादिप्रत्ययं शास्त्रसिद्धं = अतीन्द्रियाऽर्थ'सार्थसमर्थनसमर्थाऽऽगमप्रतिष्ठितं अपेक्षते = अवलम्बते। परेभ्यो हि = असद्योगाऽऽरम्भकेभ्यो हि तस्य = सद्योगाऽऽरम्भकस्य सदा भेदो = वैलक्षण्यं जात्यमयूरवत् = सर्वोपाधिविशुद्धमयूरवत् । यथा हि जात्यमयूरोऽजात्यमयूरात्सदैव भिन्नस्तथा सद्योगाऽऽरम्भकोऽप्यन्यस्मादिति भावना । तदुक्तं- “न च सद्योगभव्यस्य वृत्तिरेवंविधापि हि । न जात्वजात्यधर्मान् यज्जात्यः सन् भजते शिखी ।।' (योगबिन्दु २४१) ।।२९।। यथा शक्तिस्तदण्डादौ विचित्रा तद्वदस्य हि । गर्भयोगेऽपि 'मातृणां श्रूयतेऽत्युचिता क्रिया ॥३०॥ यथेति । यथा तदण्डादौ = जात्यमयूराण्डचञ्चु-चरणाद्यवयवेषु शक्तिः विचित्रा = अजात्यमयूराऽवयवशक्तिविलक्षणा । तद्वदस्य हि = सद्योगाऽऽरम्भकस्याऽऽदित एवाऽऽरभ्येतरेभ्यो विलक्षणा शक्तिरित्यर्थः । यत उक्तं- “यश्चाऽत्र शिखिदृष्टान्तः शास्त्रे प्रोक्तो महात्मभिः । स तदण्डरसादीनां सच्छक्त्यादिप्रसाधनः ।।” (योगबिन्दु. २४५) इति । अत एव सद्योगाऽऽरम्भकस्येति गम्यं मातृणां = जननीनां गर्भयोगेऽपि, किं ॥२५०। १४/३०॥ १. मुद्रितप्रतौ 'सार्थ' पदं नास्ति । २. हस्तादर्श '..रववत्' इत्यशुद्धः पाठः । ३. हस्तादर्श 'सर्वोपाधिविशुद्धमयूरवत्' इति पदं नास्ति । ४. मुद्रितप्रतौ 'मातृणामि 'त्यशुद्धः पाठः। ५. हस्तादर्श '...तरभ्यो' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy