SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ // सिद्धिसाधनम् ।।” (योगबिन्दु २३२) ।।२७।। सिद्धिः सिङ्यनुबद्धैव न पातमनुबघ्नती । हाठिकानामपि ह्येषा नाऽऽत्मादिप्रत्ययं विना ।।२८।। सिद्धिरिति । सिद्ध्यनुबबैव = उत्तरसिद्ध्यवन्ध्यबीजमेव सिद्धिः भवति तात्त्विकी। 'न पुनः पातं = भ्रंशं अनुबध्नती इति' प्राक्कालव्याप्त्यावष्टभ्नती' । __शल्योपहतप्रासादादिरचनाया इवाऽन्यस्या मिथ्याभिनिवेशादिपातशक्त्यनुवेधेनासिद्धित्वात् । तदुक्तं- “सिद्ध्यन्तरं न सन्धत्ते या सावश्यं पतत्यतः' । तच्छक्त्याप्यनुविद्वैव पातोऽसौ तत्त्वतो मतः ।।" (योगबिन्दु २३४) इति । इत्थं च सिद्ध्यन्तराऽङ्गसंयोगादाऽऽत्मादिप्रत्ययवतामेव सिद्धिः सिद्धा भवति । हाठिकानामपि = बलात्कारचारिणामपि एषा हि सिद्धिः आत्मादिप्रत्ययं विना न भवति । न हि मृत्पिण्डाद्युपायान्तरकार्यं घटादि बलात्कारसहस्रेणाप्युपायान्तरतः साधयितुं शक्यत इति ।।२८।। सद्योगाऽऽरम्भकस्त्वेनं शास्त्रसिद्धमपेक्षते । 'सदा भेदः परेभ्यो हि तस्य जात्यमयूरवत् ।।२९॥ १. हस्तादर्श 'न' पदं नास्ति । २. मुद्रितप्रतो 'इति' पदं नास्ति । ३. ' व्याप्त्यवष्टभ्नाति..' इत्यशुद्धः पाठो १४/२९|| मुद्रितप्रतौ । ४. हस्तादर्श ...नुवेद्धित्वात्' इति त्रुटितोऽशुद्धश्च पाठः । ५. मुद्रितप्रतौ ...त्यधः' इत्यशुद्धः पाठः। । ६. हस्तादर्श 'भेदाभेदः' इत्यशुद्धः पाठः । ||२४९। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy