________________
।
दोषाऽननुवृत्तिमती । तदुक्तं- "तृतीयाद्दोषविगमः सानुबन्धो नियोगतः” (योगबिन्दु २९९)। 'गुरुलाघवचिन्तया' इत्युपलक्षणमेषा दृढप्रवृत्त्यादेः ।।२५।।
गृहाद्यभूमिकाकल्पमतस्तत् कैश्चिदुच्यते ।
उदग्रफलदत्वेन मतमस्माकमप्यदः ॥२६॥ गृहेति । अतः = सानुबन्धदोषहानिकरत्वात् तत् = तृतीयमनुष्ठानं कैश्चित् = तीर्थान्तरीयैः गृहस्याऽऽद्यभूमिका दृढपीठबन्धरूपा तत्कल्पं = तत्तुल्यं (=गृहाद्यभूमिकाकल्पं उच्यते), उदग्रफलदत्वेन = उदारफलदायित्वेन तस्य । अदः = एतदुक्तं अस्माकमपि मतम् । यथा हि गृहाऽऽद्यभूमिकाप्रारम्भदाय नोपरितनगृहभङ्गफलं सम्पद्यते, किं तु
तदनुबन्धप्रधानं, एवं तत्त्वसंवेदनाऽनुगतमनुष्ठानमुत्तरोत्तरदोषविगमाऽऽवहमेव भवति, न || तु कदाचनाऽप्यन्यथारूपमिति ।।२६ ।।
आत्मनेष्टं गुरुइँते लिङ्गान्यपि वदन्ति तत् ।।
त्रिधाऽयं प्रत्ययः प्रोक्तः सम्पूर्ण सिद्धिसाधनम् ।।२७।। ___ आत्मनेति । आत्मनेष्टं सदनुष्ठानं गुरुः = धर्मोपदेष्टा ब्रूते कर्तव्यत्वेन । लिङ्गान्यपि
| सिद्धि-सूचकानि नन्दीतूरादीनि सूत्रसिद्धानि तद् = गुरूक्तमेव वदन्ति। अयं त्रिधा = १४/२७||
त्रिप्रकारः प्रत्ययो = विश्वासः प्रोक्तः सम्पूर्ण = अव्यभिचारि सिद्धिसाधनं = इष्टकारणम्, । यत उक्तं- “आत्मा तदभिलाषी स्याद् गुरुराह तदेव तु। तल्लिङ्गोपनिपातश्च सम्पूर्ण
लbytes
का
२४८।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org