________________
भ 4 4
मुक्तीच्छापि सतां श्लाघ्या न मुक्तिसदृशं त्वदः ।
द्वितीयात्सानुवृत्तिश्च सा स्याइर्दुरचूर्णवत् ॥२४॥ ___ मुक्तीच्छापीति । द्वितीयात् = स्वरूपशुद्धानुष्ठानात्' सानुवृत्तिश्च = उत्तरत्राऽप्यनुवृत्तिमती | च सा = दोषहानिः स्यात् दर्दुरचूर्णवद् = मण्डूकक्षोदवत् । निरनुवृत्तिदोषविगमे हि
गुरुलाघवचिन्ता-दृढप्रवृत्त्यादिकं हेतुस्तदभावाच्चात्र सानुवृत्तिरेव दोषविगम इति भावः । तदुक्तं- “द्वितीयाद् दोषविगमो न त्वेकान्तानुबन्धवान् ।
गुरुलाघवचिन्तादि न यत्तत्र नियोगतः ।।” (योगबिन्दु २१७) ।।२४।।
कुराजवप्रप्रायं तन्निर्विवेकमदः स्मृतम् ।
तृतीयात्सानुबन्धा सा गुरुलाघवचिन्तया ॥२५।। कुराजेति । तत् = तस्मात्सानुवृत्तिदोषविगमात् अदो = द्वितीयमनुष्ठानं निर्विवेकं = विवेकरहितं कुराजवप्रप्रायं = कुत्सितराज़ाऽधिष्ठितनगरप्राकारतुल्यं (स्मृतम्) । तत्र लुण्टाकोपद्रवस्येवाऽत्राऽज्ञानदोषोपघातस्य 'दुर्निवारत्वादिति भावः । तृतीयाद् = अनुबन्धशुद्धानुष्ठानात् सा = दोषहानिः सानुबन्धा = उत्तरोत्तरदोषाऽपगमाऽऽवहा । अत एव १. ...नुष्ठात्' इति मुद्रितप्रतावशुद्धः पाठः । २. हस्ताप्रतौ ...नुवृत्तिवती' इति पाठः । ३. हस्तादर्श 'सानुबन्ध' इति पाठः । ४. '...कमिदं' इति सर्वत्र प्रतौ पाठः । परं व्याख्यानुसारेण 'कमदः' इति पाठः सम्यक् । अधुना हस्तादर्शेऽप्यंपाठो लब्धः । हस्तादर्शान्तरे च ....विवेदमिदः' इत्यशुद्धः पाठः । ५. हस्तादर्श 'दुर्वारत्वा...' इति पाठान्तरम् ।
भख
||२४७॥
१४/२५
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org