SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ तृतीयं शान्तवृत्त्यादस्तत्त्वसंवेदनाऽनुगम् । दोषहानिस्तमोभूम्ना नाऽऽद्याज्जन्मोचितं परे ।।२३।। तृतीयमिति । शान्तवृत्त्या = कषायादिविकारनिरोधरूपया तत्त्वसंवेदनाऽनुगं = जीवादितत्त्वसम्यक्परिज्ञानाऽनुगतं अदो = यमाद्येव तृतीयं = अनुबन्धशुद्धं कर्म । आद्याद् = विषयशुद्धानुष्ठानात् तमोभूम्ना आत्मघातादिनिबन्धनाऽज्ञानबाहुल्येन दोषहानिः' = मोक्षलाभबाधकपरिहाणिः न भवति । यत आह- “आद्यान्न दोषविगमस्तमोबाहुल्ययोगतः" (योगबिन्दु २१५) इति । परे पुनराचार्याः प्रचक्षते उचितं = दोषविगमाऽनुकूलजात्यादि-कुलादिगुणयुक्तं जन्म ततो भवति । एकान्तनिरवद्ये मोक्षे स्वरूपतोऽतीव सावद्यस्य कर्मणस्तस्याऽहेतुत्वेऽपि मुक्तीच्छायाः कथञ्चित् सारूप्येण तद्धेतुत्वात् । तद्द्वारतया प्रकृतोपयोगादिति ह्यमीषामाशयः । तदाह"तद्योग्यजन्मसन्धानमत एके प्रचक्षते ।। (योगबिन्दु २१५) मुक्ताविच्छाऽपि यच्छलाघ्या तमःक्षयकरी मता | तस्याः समन्तभद्रत्वादनिदर्शनमित्यदः ।।" (योग ) इति ।।२३।। उक्ताशयमेवाऽऽह ॥२४६। १४/२३ ॥ १. हस्तादर्श 'दोषाऽहानिः' इत्यशुद्धः पाठः । Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy