SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ल 1559 15 पर था पु न र्ब न्ध क has द्वा त्रिं शि का १४/२२ Jain Education International प्रधानं कर्म तत्राऽऽद्यं मुक्त्यर्थं पतनाद्यपि । । २१ ।। विषयेति । विषयेण = गोचरेण, आत्मना = 'स्वरूपेण, अनुबन्धेन तु उत्तरत्राऽनुवृत्तिलक्षणेन ( = विषयात्मानुबन्धैः) शुद्धं त्रिधा त्रिविधं कर्म अनुष्ठानम् । यथोत्तरं प्रधानं, यद्यत उत्तरं तत्तदपेक्षया प्रधानमित्यर्थः । तत्राऽऽद्यं विषयशुद्धं कर्म मुक्त्यर्थं 'मोक्षो ममाऽतो भूयादि तीच्छया जनितं पतनाद्यपि भृगुपाताद्यपि । आदिना शस्त्रपाटन - गृध्रपृष्ठार्पणादिः स्वघातोपायः परिगृह्यते किं पुनः शेषं स्वाऽहिंसकमित्यपिशब्दार्थः ।। २१ ।। स्वरूपतोऽपि सावद्यमादेयाऽऽशयलेशतः । = = = 121 = शुभमेतद् द्वितीयं तु लोकदृष्ट्या यमादिकम् ।। २२ ।। = स्वरूपत इति । स्वरूपतः = आत्मना सावद्यमपि = पापबहुलमपि आदेयाऽऽशयस्य उपादेयमुक्तिभावस्य लेशतः = सूक्ष्ममात्रालक्षणात् ( = आदेयाऽऽशयलेशतः) शुभं शोभनं एतत् । यदाह- “ तदेतदप्युपादेयलेशभावाच्छुभं मतम् " ( योगबिन्दु २१२ ) । द्वितीयं तु = स्वरूपशुद्धं तु लोकदृष्ट्या = स्थूलव्यवहारिणो लोकस्य मतेन यमादिकं `यमनियमादिरूपम्, यथा जीवादितत्त्वमजानानानां पूरणादीनां प्रथमगुणस्थानवर्तिनाम् ।। २२ ।। = १. हस्तादर्श 'स्वरूपणा...' इत्यशुद्धः पाठः । २. 'यम-नियमादियमादिरूपं' इति मुद्रितप्रतावशुद्धः पाठः । ३. 'जानानां' इति मुद्रितप्रतावशुद्धः पाठः । For Private & Personal Use Only ।। २४५ । www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy