________________
शास्त्रमिति । आसन्नभव्यस्य = अदूरवर्तिमोक्षलाभस्य प्राणिनः आमुष्मिके विधौ = पारलौकिके कर्मणि शास्त्रं मानम्, धर्माऽधर्मयोरतीन्द्रियत्वेन तदुपायत्वबोधने प्रमाणान्तराऽसामर्थ्यात् । अतः सेव्यं = सर्वत्र प्रवृत्तौ पुरस्करणीयं, न तु क्वचिदप्यंशेऽनादरणीयम्। ___ यद् = यस्मात् विचिकित्सायाः = युक्त्या समुपपन्नेऽपि मतिव्यामोहोत्पन्नचित्तविप्लुतिरूपायाः समाधेः = चित्तस्वास्थ्यरूपस्य ज्ञान-दर्शन-चारित्रात्मकस्य वा प्रतिकूलता = विरोधिताऽस्ति ।
अर्थो हि विविधः सुखाऽधिगमो दुरधिगमोऽनधिगमश्चेति श्रोतारं प्रति भिद्यते । आद्यो यथा चक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धिः२ । द्वितीयः सैवाऽनिपुणस्य । तृतीयस्त्वन्धस्येति । तत्र प्रथम-चरमयो स्त्येव विचिकित्सा, निश्चयादसिद्धेश्च । द्वितीये तु देश-काल-स्वभावविप्रकृष्टे धर्माऽधर्मादौ भवन्ती सा महाऽनर्थकारिणी । यदागम:"वितिगिच्छसमावन्नेणं अप्पाणेणं णो लहति समाहिं" (आचाराड्ग ५/५/१६१)। अतश्चित्तशुद्ध्यर्थं शास्त्रमेवाऽऽदरणीयमिति भावः । ____यत उक्तं- “मलिनस्य यथाऽत्यन्तं जलं वस्त्रस्य शोधनम् ।
अन्तःकरणरत्नस्य तथा शास्त्रं विदुर्बुधाः ।।" (योगबिन्दु २२९) ।।२०।।
विषयाऽऽत्माऽनुबन्धैस्तु त्रिधा शुद्धं यथोत्तरम् । १. मुद्रितप्रतौ 'प्रवृत्ता' इत्यशुद्धः पाठः । २. 'रूपसि' इत्यशुद्धः पाठो हस्तप्रतो । ३. 'पुण्यस्य' इति मुद्रितप्रतावशुद्ध: पाठः । ४. मुद्रितप्रतौ 'वितिगिछं समा...' इत्यशुद्धः पाठः ।
||२४४।
१४/२०॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org