________________
। चारित्रप्रतिपन्थिनामनन्ताऽनुबन्धिनामपगमे तद्गुणप्रादुर्भावनियम इति निश्चयाऽऽश्रयणात् ।
अल्पतदविवक्षापरेण व्यवहारेण त्वत्राऽयं नेष्यत एव । "एतच्च योगहेतुत्वाद्योग इत्युचितं वचः । मुख्यायां पूर्वसेवायामवतारोऽस्य केवलम् ।।" (योगबिन्दु २०९) इत्यनेनाऽपुनर्बन्धकाऽतिशयाभिधानं तु सम्यग्दृशो नैगमनयशुद्धिप्रकर्षकाष्ठाऽपेक्षमिति न कश्चिद्विरोध इति विभावनीयं सुधीभिः ।।१८।।
एतन्निश्चयवृत्त्यैव यद्योगः शास्त्रसंज्ञिनः ।
त्रिधा शुद्धादनुष्ठानात् सम्यक्प्रत्ययवृत्तितः ।।१९।। एतदिति । एतद् = यदुक्तं भिन्नग्रन्थेरेव भावतो योग इति निश्चयवृत्त्यैव = परमार्थवृत्त्यैव, न तु कल्पनया, यद् = यस्माच्छास्त्रेणैव संज्ञी तद्विना त्वसंज्ञिवत् क्वाप्यर्थेऽप्रवर्तमानो यस्तस्य (=शास्त्रसंजिनः) त्रिधा = वक्ष्यमाणैस्त्रिभिः प्रकारैः शुद्धाद् = निरवद्यात् अनुष्ठानाद् = आचारात् सम्यक्प्रत्ययेन = आत्म-गुरु-लिङ्गशुद्धया स्वकृतिसाध्यताद्यभ्रान्तविश्वासेन वृत्तिः = प्रवृत्तिस्ततः (=सम्यक्प्रत्ययवृत्तितः) भवतीति ।।१९।।
शास्त्रमासन्नभव्यस्य मानमामुष्मिके विधौ ।
सेव्यं यद्विचिकित्सायाः समाधेः प्रतिकूलता ।।२०।। १. 'संज्ञितः' इति मुद्रितप्रतौ पाठः। २. हस्ताद” 'एतदिति' इति पदं नास्ति। ३. '...थे प्रव..' इति मुद्रितप्रतौ । पाठः । ४. हस्तादर्श 'समाधिप्रति....' इति पाठान्तरम् ।
||२४३।।
१४/२०॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org