SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ल by t ____निजेति । निजाशयविशुद्धौ हि सत्यां बाह्यो हेतुः कुटुम्बचिन्तनादिव्यापारः अकारणं कर्मबन्धं प्रति, भवहेतूनामेव परिणामविशेषेण मोक्षहेतुत्वेन' परिणमनात् “जे जत्तिया य हेऊ भवस्स ते तत्तिआ य मुक्खस्स” (ओघनियुक्ति-५३) इति वचनप्रामाण्यात् । ___ ननु किमेकेन शुभपरिणामेन ? क्रियाया अपि मोक्षकारणत्वात्तदभावे तस्याऽकिञ्चित्करत्वादित्यत आह- शुश्रूषादिक्रियाऽपि अस्य = सम्यग्दृशः 'शुद्धा श्रद्धानुसारिणी = जिनवचनप्रामाण्यप्रतिपत्त्यनुगामिनी । ___ परिशुद्धोहापोहयोगस्य हि प्रकृतेरप्रवृत्ति-विरोधि प्रवृत्तियोगाभ्यां 'सम्यगनुष्ठानाऽवन्ध्यकारणत्वात्तेनैव तदाक्षिप्यत इति भावः । तदुक्तं'चारु 'चैतद्यतो ह्यस्य तथोहः सम्प्रवर्तते । एतद्वियोगविषयः "शुद्धाऽनुष्ठानभाक् स यत्।। प्रकृतेरा यतश्चैव नाऽप्रवृत्त्यादिधर्मताम् । तथा विहाय घटते ऊहोऽस्य विमलं मनः ।। सति चाऽस्मिन् स्फुरद्रत्नकल्पे “सत्त्वोल्बणत्वतः । भावस्तैमित्यतः शुद्धमनुष्ठानं सदैव हि ।।' (योगबिन्दु २०६-७-८) । ___ननु सम्यग्दृष्टिपर्यन्तमन्यत्र द्रव्ययोग एवोच्यते इति कथमत्र भावतोऽयमुक्त इति चेत् ? १. हस्तादर्श हेतुत्वे' इति पाठः । २. हस्तादर्श 'जेत्तिया' इत्यशुद्धः पाठः । ३. 'शुद्धश्र' इत्यशुद्धः पाठो मुद्रितप्रतौ । ४. मुद्रितप्रती '...प्रकृति...' इति पाठः । ५. हस्तादर्श 'सम्यगनुष्ठाव....' इत्यशुद्धः पाठः । मुद्रितप्रती च 'सम्यगनुष्ठानव.....' इत्यशुद्धः पाठः । ६. मुद्रितप्रतौ 'वैत...' इत्यशुद्धः पाठः । ७. हस्तादर्श 'श्रद्धा....' इत्यशुद्धः पाठः । ८. हस्तादर्श 'सल्व....' इत्यशुद्धः पाठः। ९. मुद्रितप्रतौ 'इति' पदं नास्ति परं हस्तादर्श वर्तते । ||२४२॥ १४/१८|| Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy