________________
यत्प्रायो मोक्षे चित्तं भवे 'तनुः । तस्य तत्सर्व एवेह योगो योगो हि भावतः ।।” (योगबिन्दु २०३) इति ।।१६।।
अन्यसक्तस्त्रियो भर्तृयोगोऽप्यश्रेयसे यथा ।
तथाऽमुष्य'कुटुम्बादिव्यापारोऽपि न बन्धकृत् ।।१७।। अन्येति । अन्यस्मिन् = स्वभर्तृव्यतिरिक्त पुंसि सक्ताया अनुपरतरिरंसायाः स्त्रियो = योषितः (=अन्यसक्तस्त्रियः) भर्तृयोगोऽपि = पतिशुश्रूषणादिव्यापारोऽपि यथाऽश्रेयसे = पापकर्मबन्धाय तथाऽमुष्य = भिन्नग्रन्थेः कुटुम्बादिव्यापारोऽपि न बन्धकृत् । पुण्ययोगेऽपि पापपरिणामेन पापस्यैव बन्धवदशुभकुटुम्बचिन्तनादियोगेऽपि शुद्धपरिणामेन सदनुबन्धस्यैवोपपत्तेः ।
तदुक्तं- “नार्या यथाऽन्यसक्तायास्तत्र भावे सदा स्थिते । तद्योगः पापबन्धश्च तथा मोक्षेऽस्य दृश्यताम् ।। न चेह ग्रन्थिभेदेन पश्यतो भावमुत्तमम् । इतरेणाऽऽकुलस्याऽपि तत्र चित्तं न जायते ।।" (योगबिन्दु २०४-२०५) ।।१७।।
निजाऽऽशयविशुद्धौ हि बाह्यो हेतुर कारणम् ।
शुश्रूषादिक्रियाऽप्यस्य शुद्धा श्रद्धानुसारिणी ।।१८।। १. मुद्रितप्रतौ 'तनु' इति विसर्गशून्यः पाठः । २. 'तथा मुख्यकु' इत्यशुद्धः पाठो मुद्रितप्रतौ । हस्तादर्श च 'मुखामुकूटादि' इत्यशुद्धः पाठः । ३. 'पापस्येव' इत्यशुद्धः पाठो मुद्रितप्रतौ । ४. 'हेतुका' इत्यशुद्धः पाठो मुद्रितप्रतौ।
॥२४१।
१४/१८||
Jain Education International
For Private & Personal use only
www.jainelibrary.org