SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ भभ भभभ 444 गोपेन्द्रेति । अस्माद् गोपेन्द्रवचनात् एवंलक्षणशालिनः = शान्तोदात्तत्वादिगुणयुक्तस्य (अस्य=) अपुनर्बन्धकस्य परैः = तीर्थान्तरीयैः योग (इष्यते=) उच्यते । प्रतिश्रोतोऽनुगच्छति यः स प्रतिश्रोतोऽनुगस्तद्भावस्तत्त्वं ततः (=प्रतिश्रोतोऽनुगत्वतः) । इन्द्रिय-कषायाऽनुकूला हि वृत्तिरनुश्रोतः। तत्प्रतिकूला तु प्रतिश्रोत इति। ___इत्थं हि प्रत्यहं शुभपरिणामवृद्धिः, सा च योगफलमित्यस्य योगौचित्यम् । तदाह“वेलावलनवन्नद्यास्तदाऽऽपूरोपसंहृतेः । प्रतिश्रोतोऽनुगत्वेन प्रत्यहं वृद्धिसंयुतः।।” (योगबिन्दु २०२) इति ।।१५।। तक्रियायोगहेतुत्वाद्योग इत्युचितं वचः । मोक्षेऽतिदृढचित्तस्य भिन्नग्रन्थेस्तु भावतः ।।१६।। -तदिति । तद्वचः क्रियायोगस्य सदाचारलक्षणस्य हेतुत्वात् (=क्रियायोगहेतुत्वात्) योग इति = एवं उचितं, अस्य द्रव्ययोगवत्त्वात् । ___मोक्षे = निर्वाणे अतिदृढचित्तस्य = एकधारालग्नहृदयस्य भिन्नग्रन्थः = विदारिताऽतितीव्रराग-द्वेषपरिणामस्य तु भावतो योगः सम्भवति। सम्यग्दृष्टेर्हि मोक्षाऽऽकाक्षाऽक्षणिकचित्तस्य या या चेष्टा सा सा मोक्षप्राप्तिपर्यवसानफलिकेति तस्यैव भावतोऽयम् । अपुनर्बन्धकस्य तु न सार्वदिकस्तथापरिणाम इति द्रव्यत एवेति । तदुक्तं- "भिन्नग्रन्थेस्तु १. हस्तादर्श '...गत्वात्' इति पाठः । ॥२४०। १४/१६ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy