________________
।। तेनाऽपि क्लेशाऽभिभवः कर्तुं शक्यत इति न संसारदशायां क्लेशेनाऽऽत्माऽभिभवाऽनुपपत्तिरिति भावः। फलोहनमेतत् ।।१२।।
तद्वियोगाश्रयोऽप्येवं सम्यगृहोऽस्य जायते ।
तत्तत्तन्त्रनयज्ञाने विशेषाऽपेक्षयोज्ज्वलः ।।१३।। तदिति । तद्वियोगाऽऽश्रयो = भववियोगाऽऽश्रयः अप्येवं = हेतु-स्वरूप-फलद्वारेण सम्यगृहः = समीचीनविचारः अस्य = शान्तोदात्तस्य जायते । तेषां तेषां तन्त्राणां षष्टितन्त्रादीनां नयानां ज्ञाने (= तत्तत्तन्त्रनयज्ञाने) सति विशेषाऽपेक्षया = इतरांऽशजिज्ञासालक्षणया उज्ज्वलः = शुद्धनिश्चयानुसारी ।।१३।।
योजनाद्योग इत्युक्तो मोक्षेण मुनिसत्तमैः ।
स निवृत्ताऽधिकारायां प्रकृतौ लेशतो ध्रुवः ॥१४॥ योजनादिति । योजनात् = 'घटनात् मोक्षेण इति = अस्माद्धेतोः मुनिसत्तमैः = ऋषिपूङगवैः योग उक्तः । स निवृत्ताऽधिकारायां = व्यावृत्तपूरुषाऽभिभवायां प्रकृती सत्यां लेशतः = किञ्चिद्वत्त्या ध्रवो = निश्चितः ||१४||
गोपेन्द्रवचनादस्मादेवं लक्षणशालिनः । १४/१५
परैरस्येष्यते योगः प्रतिश्रोतोऽनुगत्वतः ।।१५।। १. हस्तादर्श 'घनात्' इत्यशुद्धः पाठः । २. हस्तादर्श '...दक्षण...' इत्यशुद्धः पाठः ।
।।२३९।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org