SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ल 5 59 15 to t क था न न्ध क द्वा त्रिं शि का १४/१२ Jain Education International भवोऽयं दुःखगहनो जन्म-मृत्यु-जरामयः । अनादिरप्युपायेन पृथग्भवितुमर्हति ।। ११ ।। भवोऽयमिति । अयं = प्रत्यक्षोपलभ्यमानो भवः = संसारः दुःखगहनः = शारीरमानसाऽनेकदुःखशतैराच्छन्नः । जन्म = मातृकुक्षिनिष्क्रमणलक्षणं, मरणं = प्रतिनियताऽऽयुःकर्मक्षयः, जरा = वयोहानिलक्षणा, तन्मयः = तत्प्राचुर्यवान् (=जन्म-मृत्यु-जरामयः) । अनादिरपि उपायेन ज्ञानदर्शनचारित्ररूपेण पृथग् भवितुमर्हति काञ्चनमलवदिति । स्वरूपोहनमेतत् ।।११। फलं भवस्य विपुलः क्लेश एव विजृम्भते । न्यग्भाव्याऽऽत्मस्वभावं हि पयो निम्बरसो यथा ।। १२ ।। फलमिति । भवस्य = "संसारस्य फलं = कार्यं विपुलः = अनुबन्धसन्तत्या विस्तीर्णः क्लेश एव विजृम्भते । नात्र सुखलवोऽप्यस्तीत्येवकारार्थः । आत्मन्येव सुखस्वभावे सति कथं क्लेशो विजृम्भते ? इत्यत आह- आत्मस्वभावं (हि) न्यग्भाव्य = तिरोभाव्य । यथा पयः तिरोभाव्य निम्बरसो विजृम्भते । भवति महता प्रतिपन्थिनाऽल्पस्याऽभिभव इति । यदा त्वात्मस्वभाव एव भूयान् भवति तदा १. हस्तादर्शे '...जृम्भंते' इत्यशुद्धः पाठः । २. हस्तादर्शे 'निग्राप्या...' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'निविरसो' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'संसारफ....' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।२३८ । www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy