________________
क्रोधाद्यबाधितः शान्त उदात्तस्तु महाशयः ।
बीजं रूपं फलं चाऽयमूहते भवगोचरम् ॥९॥ 'क्रोधादीति । पूर्वार्धं गतार्थम् । अयं च शान्तोदात्तः भवगोचरं = संसारविषयं | बीजं = कारणं रूपं = स्वरूपं फलं च = कार्यं ऊहते = विचारयति ।।९।। तथाहि
भेदे हि प्रकृतेर्नैक्यमभेदे च न भिन्नता ।
आत्मनां स्यात्स्वभावस्याऽप्येवं शबलतोचिता ॥१०॥ भेदे हीति । भेदे हि एकान्ततोऽभ्युपगम्यमाने प्रकृतेः = सत्त्वरजस्तमोलक्षणाया ज्ञानावरणादिकर्मरूपाया वा नैक्यं आत्मनां संसारिणां स्यात् । तथा चैकजातीयसंसारफलोपलम्भबाध इति भावः । ____ अभेदे च = एकान्ताभेदे च न भिन्नता स्यात् तेषां । तथा च नरक-तिर्यग्मनुष्य देवादिभेदोपलम्भबाध इति भावः। स्वभावस्याऽपि अन्तरङ्गहेतुभूतस्य भेदाऽभेदयोरेकान्तयोरेतदेव दूषणम् । एवं = एकान्तपक्षे उभयतः पाशारज्जुसद्भावात् शबलता = कथंचिद्भेदाऽभेदरूपा उचिता = न्याय्येति, तयैव सकलव्यवहारोपपत्तेः । हेतूहनमेतत्
।।१०।। १४/१०॥
१. 'क्रोधादिति' इत्येवं मुद्रितप्रतावशुद्धः पाठः । २. मुद्रितप्रती 'नृ-ति...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'मानुष्क..' इति पाठः । ४. मुद्रितप्रतौ 'पाशरज्जु...' इत्यशुद्धः पाठः ।
का
||२३७
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org