________________
शान्तोदात्त इति । तयैव = अपुनर्बन्धकोचितैष्यद्भद्रप्रकृत्यैव शान्तोदात्तः स्यात् । शान्त = तथाविधेन्द्रियकषायविकारविकलः । उदात्तः = उच्चोच्चतराद्याचरणबद्धचित्तः । ततः कर्मधारयः। तथा शुभचेतसः = 'शुद्धचित्तपरिणामस्य आश्रयः = स्थानम् ।
धन्यः = सौभाग्याऽऽदेयतादिना धनार्हः भोगसुखस्येव = शब्द-रूप-रस-गन् स्पर्शसेवालक्षणस्य यथा आश्रयः, वित्ताऽऽढ्यो = विभवनायकः, रूपवान = शुभशरीरसंस्थान युवा = तरुणः पुमान् ।।७।।
अङ्गाभावे त(?य)था भोगोऽतात्त्विको मानहानितः ।
शान्तोदात्तत्वविरहे क्रियाप्येवं विकल्पजा ॥८॥ अगाभाव इति । (यथा) अङ्गानां = भोगाऽङ्गानां रूप-वयो-वित्ताऽऽढ्यत्वादीनां वात्स्यायनोक्तानामभावे (=अङ्गाऽभावे) सति भोगोऽतात्त्विकः = अपारमार्थिकः, मानहानितः = “अहं सुखी" इत्येवंविधप्रतिपत्तिलक्षणमानाऽपगमादपूर्यमाणेच्छत्वेन तदनुत्थानाच्च । ___शान्तोदात्तत्वविरहे सति एवं क्रियाऽपि = गुर्वादिपूजनारूपा विकल्पजा = विपर्यासजनिता न तु तात्त्विकी, अन्तःसुखप्रवाहाऽनुत्थानात् । तदुक्तं- "मिथ्याविकल्परूपं तु द्वयोर्द्वयमपि स्थितम ।
स्वबुद्धिकल्पनाशिल्पिनिर्मितं न तु तत्त्वतः ।। (योगबिन्दु १८९) ।।८।। १४/८||
।। १. मुद्रितप्रतौ 'शुद्धशि...' इत्यशुद्धः पाठः । २. हस्तादर्श 'धनः' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'धन्य' " इति नास्ति । ३. हस्तादर्श ...तात्त्विका' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ ....नाच्चा' इत्यशुद्धः पाठः ।
॥२३६।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org