________________
प्रजभ भ म 14
युक्तं चैतन्मले तीब्रे भवासङ्गो न हीयते ।
सङ्क्लेशाऽयोगतो मुख्या साऽन्यथा नेति हि स्थितिः ।।५।। युक्तमिति । एतच्च = एतदपि युक्तं, तीव्र = अत्यन्तमुत्कटे 'मले = कर्मबन्धलक्षणे भवाऽऽसङ्गः = 'संसारप्रतिबन्धः न हीयते शेषजन्तोः । मनागपि हि तन्निवृत्तौ तस्याऽपुनर्बन्धकत्वमेव स्यादिति । सङ्क्लेशायोगतः = पुनरतितीव्रसङ्क्लेशाऽप्राप्तौ सा = पूर्वसेवा मुख्या, उत्तरोत्तरभववैराग्यादिकल्याणनिमित्तभावात् । अन्यथा नेति हि स्थितिः शास्त्रमर्यादा ।।५।।
एष्यद्भद्रां समाश्रित्य पुंसः प्रकृतिमीदृशीम् ।
व्यवहारः स्थितः शास्त्रे युक्तमुक्तं ततो ह्यदः ॥६॥ एष्यद्भद्रामिति । ईदृशीं = सङ्क्लेशाऽयोगविशिष्टां एष्यद्भद्रां = कल्याणाऽनुबन्धिनी ॥ पुंसः "प्रकृतिं समाश्रित्य व्यवहारः पूर्वसेवादिरूपः स्थितः = प्रसिद्धः शास्त्रे = योगग्रन्थे ततो हि अदः = एतद् युक्तमुक्तं, यदुताऽन्यत्रोपचारत एव पूर्वसेवेति ।।६।।
शान्तोदात्तस्तयैव स्यादाश्रयः शुभचेतसः ।
धन्यो भोगसुखस्येव वित्ताढ्यो रूपवान् युवा ।।७।। १. 'दले' इत्यशुद्धः पाठो हस्तादर्श । २. 'संतार' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. हस्तादर्श 'युक्तमेतं' इत्यशुद्धः | पाठः । ४. मुद्रितप्रतौ 'प्रकृति' पदं नास्ति पर हस्तादर्शे वर्तते । ५. हस्तादर्श 'सुखस्येवं' इत्यशुद्धः पाठः ।
।।२३५॥
१४/७
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org