________________
योग्यत्वेऽपीति । परे त्वेतौ = मार्गपतित-मार्गाभिमुखौ योग्यत्वेऽपि व्यवहितौ = अपुनर्बन्धकाऽपेक्षया दूरस्थाविति पृथग् = अपुनर्बन्धकाद् भिन्नौ' जगुः । अन्यत्राऽपि = सकृद्बन्धकादावपि उपचारस्तु पूर्वसेवायाः सामीप्ये अपुनर्बन्धकसन्निधानलक्षणे सति बबभेदतः = अतिभेदाऽभावात् ।।३।।
परिणामिनि कार्याद्धि सर्वथा नास्ति भिन्नता ।
"अनालोचनगर्भत्वाद् अन्यत्रैनां परे जगुः ।।४।। परिणामिनीति । कार्यात् हि परिणामिनि सर्वथा भिन्नता नास्ति, यथा घटादेर्मुत्पिण्डादौ । एवमपुनर्बन्धकादेरपि सकृद्बन्धकादौ न सर्वथा भिन्नतेति भावनीयम् । तदुक्तं- “कृतश्चास्या उपन्यासः शेषापेक्षोऽपि कार्यतः । 'नाऽऽसन्नोऽप्यस्य बाहुल्या दन्यथेति प्रदर्शकः ।।"(योगबिन्दु १८०)।
परे पुनः अन्यत्र सकृबन्धकादौ अनालोचनगर्भत्वाद् = भवस्वरूपनिर्णायकोहापोहाद्यभावसङ्गतत्वाद् एनां = उपचरितां पूर्वसेवां जगुः = प्राहुः । प्राचि पक्षे कारणे कार्योपचारः, अत्र त्वनालोचनद्वाराऽमुख्यत्वरूप उपचार इति विशेषः ।।४।। १. 'भिन्नो' इति मुद्रितप्रतौ पाठोऽशुद्धः । २. 'उपचारतस्तु' इति मुद्रितप्रतौ पाठोऽशुद्धः । ३. हस्तादर्श ‘पूर्वसेवया' (1२३४। इत्यशुद्धः पाठः । ४. मुद्रितप्रतिषु सर्वत्र 'तत्प्रकृत्या विनाप्यूह' इत्यशुद्धः पाठः । ५. हस्तादर्श 'विप....' इत्यशुद्धः पाठः । ६. हस्तादर्श 'आस...' इत्यशुद्धः पाठः । ७. 'ल्यान्ना' इत्यशुद्धः पाठो मुद्रितप्रती हस्तादर्श च वर्तते। अस्माभिस्तु योगबिन्दुगतः पाठ आदृतः ।
१४/४
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org