SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ स म्य ष्टि द्वा ho to शि का १५/२८ Jain Education International वेदप्रामाण्याऽभ्युपगमोत्तरकालवृत्तित्वविशिष्ट-वेदाऽप्रामाण्याऽभ्युपगमविरहः शिष्टत्वमिति निर्वचने न कोऽपि दोषो भविष्यतीत्यत आह अपि चाऽव्याप्त्यतिव्याप्ती कार्य- देशविकल्पतः । आद्यग्रहे स्वतात्पर्यान्न दोष इति चेन्मतिः । । २७।। अपि चेति। अपि च' कार्त्य- देशविकल्पतः = कृत्स्नवेदप्रामाण्याऽभ्युपगमो विवक्षित देशतदभ्युपगमो वा ? इति विवेचने अव्याप्त्यतिव्याप्ती । कृत्स्नवेदप्रामाण्याऽभ्युपगमस्य ब्राह्मणेष्वप्यभावात्। न हि वेदान्तिनो नैयायिकाद्यभिमतां श्रुतिं प्रमाणयन्ति, नैयायिकादयो वा वेदान्त्यभिमताम् । यत्किञ्चिद्वेदप्रामाण्यं च बौद्धादयोऽप्यभ्युपगच्छन्ति “न हिंस्यात् सर्वभूतानि ” ( छान्दोग्योपनिषत् - अ. ८), "अग्निर्हिमस्य भेषजम्" (यजुर्वेद - २३/१०) इत्यादिवचनानां तेषामपि सम्मतत्वादिति । “स्वतात्पर्यात् = स्वाऽभिप्रायमपेक्ष्य आद्यग्रहे = यावद्वेदप्रामाण्याभ्युपगमनिवेशे' न दोषः, 'स्व-स्वतात्पर्ये प्रमाणं श्रुतिरिति हि सर्वेषां नैयायिकादीनामभ्युपगमः" इति चेन्मतिः = कल्पना भवदीया ? ।। २७ ।। नैवं विशिष्य तात्पर्याग्रहे तन्मानताऽग्रहात् । सामान्यतः स्वतात्पर्ये प्रामाण्यं नोऽपि सम्मतम् ।। २८ ।। १. हस्तादर्शे 'च' नास्ति । २. मुद्रितप्रती ...णेष्वभा...' इति पाठः । ३. हस्तादर्शे '...पगमे निवेशे' इति अशुद्धः पाठः । For Private & Personal Use Only ।।२६९ । www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy