________________
स
म्य
ष्टि
ho to s
द्वा
शि
का
१५/२९
Jain Education International
नैवमिति । एवं मतिः न युक्ता, कस्याश्चिद्दुरवबोधायाः श्रुतेः विशिष्य स्वकल्पिताऽर्थाऽनुसारेण तात्पर्याग्रहे तन्मानतायाः = तत्प्रमाणताया अग्रहात् (= तन्मानताऽग्रहात्), स्वतात्पर्ये सर्ववेदप्रामाण्याऽभ्युपगमस्य दुःशकत्वात् ।
‘अनाकलिततात्पर्यायामपि श्रुतौ प्रमोपहितत्वाऽग्रहेऽपि प्रमाकरणत्वस्य सुग्रहत्वान्न 'दोष' इत्यत आह- सामान्यतो नयरूपत्वेन स्वतात्पर्ये = स्वाऽभिप्राये प्रामाण्यं = वेदप्रामाण्यं नः = अस्माकं जैनानां अपि सम्मतम् । ' यावन्तो हि परसमयास्तावन्त एव नया' इति श्रुतपरिकर्मितमतेः सर्वमेव शब्दं प्रमाणीकुर्वतः सकलवेदप्रामाण्याऽभ्युपगमोऽनपाय एवेति ।। २८ ।। एतदेवाऽऽह -
=
मिथ्यादृष्टिगृहीतं हि मिथ्या सम्यगपि श्रुतम् ।
सम्यग्दृष्टिगृहीतं तु सम्यग्मिथ्येति नः स्थितिः ।। २९ ।।
मिथ्यादृष्टीति । मिथ्यादृष्टिगृहीतं हि सम्यगपि श्रुतं आचारादिकं मिथ्या भवति, तं प्रति तस्य विपरीतबोधनिमित्तत्वात् । सम्यग्दृष्टिगृहीतं तु मिथ्या अपि श्रुतं वेदपुराणादिकं सम्यक् तं प्रति तस्य यथाऽर्थबोधनिमित्तत्वात् ।
इति नः = अस्माकं स्थिति:
सिद्धान्तमर्यादा ।
१. ‘मतिनिर्युक्ता' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. 'तप्रमा'... इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. हस्तादर्शे '... यप्रामाण्यं' इत्यशुद्धः पाठः । मुद्रितप्रतौ च 'स्वाऽभिप्रायप्रामाण्ये' इत्यशुद्धः पाठः । ४ हस्तादर्शे 'वेदः पु...' इति पाठः । ५. हस्तादर्शे 'मर्यादात्' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
112901
www.jainelibrary.org