________________
प्रमानिमित्तत्वमात्रमेतदभ्युपगतं न तु प्रमाकरणत्वमिति चेत् ? न, त्वदुक्तं प्रमाकरणत्वमेव' प्रमाणत्वमिति सर्वेषां प्रमातॄणामनभ्युपगमात् ।।२९।।
तात्पर्य वः स्वसिद्धान्तोपजीव्यमिति चेन्मतिः ।
ननु युक्त्युपजीव्यत्वं द्वयोरप्यविशेषतः ॥३०॥ ___ तात्पर्यमिति । वो = युष्माकं स्वसिद्धान्तोपजीव्यं = स्वसिद्धान्तपुरस्कारि तात्पर्यम्। तथा चाऽन्याऽऽगमाऽनुपजीव्यतात्पर्ये सकलवेदप्रामाण्याऽभ्युपगमनिवेशान्न दोष इति चेद् = यदि तव मतिः, ननु तदा द्वयोरपि आवयोः अविशेषतो युक्त्युपजीव्यत्वम्। अयं भावःअन्याऽऽगमाऽनुपजीव्यत्वं ह्यन्याऽऽगमाऽसंवादित्वं चेत ? तत्संवादिनि स्वाऽभिप्रायेऽव्याप्तिः । अयौक्तिकतदसंवादित्वं चेद ? अस्माकमपि तात्पर्यमयौक्तिकाऽऽगमाऽसंवाद्येव, सर्वस्यैव भगवद्वचनस्य युक्तिप्रतिष्ठितत्वात्, मिथ्याश्रुततात्पर्यस्याऽपि स्याद्वादसङ्गतयुक्त्यैव गृह्यमाणत्वात् ।।३०।। यतः
उद्भावनमनिग्राह्यं युक्तेरेव' हि यौक्तिके ।
प्रामाण्ये च न वेदत्वं सत्यत्वं तु प्रयोजकम् ॥३१।। उद्भावनमिति । यौक्तिके हि अर्थे युक्तेरेवोद्भावनं अनिग्राह्यं अनिग्रहस्थानं, १. हस्ताद” 'प्रमाकरत्वमेव' इति त्रुटितः पाठः । २. हस्तादर्श 'युक्तिरेव' इति पाठः । ३. अत्र 'सम्यक्त्वं' इत्यशुद्धः पाठो मुद्रितप्रतौ । हस्तादर्श च ...त्वं मु' इत्यशुद्धः पाठः ।
१५/३१
२७१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org