SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ । अन्यथा' निग्रहाभिधानात् । यद् वादी- “जो हेउवायपखंमि हेउओ आगमे अ आगमिओ। सो समयपन्नवओ सिद्धंतविराहगो अन्नो ।।" (सं.त.३/४५) इति । अथ वेदत्वमेव प्रामाण्यप्रयोजकमित्यभ्युपगमो' यावद्वेदप्रामाण्याऽभ्युपगमः स्यादित्यत आह- प्रामाण्ये च वेदत्वं न प्रयोजकं किं तु सत्यत्वं एव, लोकशब्दस्याप्यविसंवादिनः प्रमाणत्वादिति श्रद्धामात्रमेतदिति न किञ्चिदेतत् ।।३१ ।। शिष्टत्वमुक्तमत्रैव भेदेन प्रतियोगिनः । तमानुभविकं बिभ्रत् परमानन्दवत्यतः ॥३२॥ शिष्टत्वमिति । अतः = परोक्तशिष्टलक्षणनिरासात् । अत्रैव = सम्यग्दृष्टावेव उक्तं अंशतः क्षीणदोषत्वं शिष्टत्वं परमानन्दवति = दुर्भेदमिथ्यात्वमोहनीयभेदसमुत्थनिरतिशयाऽऽनन्दभाजने । शिष्टत्वलिङ्गाभिधानमेतत् । प्रतियोगिनो दोषस्य क्षीयमाणस्य भेदेन तं = भेदं आनुभविकं = *सकलजनाऽनुभवसिद्धं • बिभ्रत् । भवति हि 'अयमस्मात् १५/३२ शिष्टतरोऽयमस्माच्छिष्टतम' इति सार्वजनीनो व्यवहारः । स चाऽधिकृताऽपेक्षयाऽधिकतराऽधिकतमदोषक्षयविषयतया उपपद्यते ।। ___परेषां तु न कथञ्चित, सर्वेषां वेदप्रामाण्याऽभ्युपगमादौ विशेषाऽभावात । १. हस्तादर्श 'अन्यनिग्र...' इति पाठः । स चाशुद्धः प्रतिभाति । २. अत्र मुद्रितप्रतौ ....गमे' इत्यशुद्धः पाठः । ३. हस्तादर्श'...मात्रैव' इत्यशुद्धः पाठः । ४. हस्तादर्श'...नंदकारणम्' इत्यशुद्धः पाठः । ........ चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । का ॥२७२। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy