________________
एतेन वेदविहिताऽर्थाऽनुष्ठातृत्वं शिष्टत्वमित्यपि निरस्तम् । यावत्तदेकदेशविकल्पाभ्यामसम्भवाऽतिव्याप्त्योः प्रसङ्गाच्च ।
यत्त्वदृष्टसाधनताविषयकमिथ्याज्ञानाऽभाववत्त्वं शिष्टलक्षणमुच्यते तत्त्वस्मदुक्तशिष्टत्वव्यञ्जकमेव युक्तमाभाति, न तु परनीत्या 'स्वतन्त्रलक्षणमेव । ____ गङ्गाजले कूपजलत्वाऽऽरोपाऽनन्तरं 'इदं कूपजलं नाऽदृष्टसाधनमिति भ्रमवतः, कूपजल एव गङ्गाजलत्वाऽऽरोपाऽनन्तरं 'इदं गङ्गाजलमदृष्टसाधनमि'ति भ्रमवतो गङ्गाजले उच्छिष्टत्वाऽऽरोपाऽनन्तरं 'नाऽदृष्टसाधनमि'ति भ्रमवतश्च अशिष्टत्ववारणायाऽदृष्टसाधनताऽवच्छेदक रूपा(प?)पुरस्कारेण निषेधमुखेनाऽदृष्टसाधनताविरोधिरूपाऽपुरस्कारेण चाऽदृष्टसाधनताविषयकत्वविवक्षायामपि स्वापादिदशायां बौद्धादावतिव्याप्तेः ।
एतावदग्रहेऽपि सर्वत्र शमादिलिङगेन शिष्टत्वव्यवहाराच्चेति किमनया कुसृष्ट्या ? | ||३२॥
।। इति सम्यग्दृष्टिद्वात्रिंशिका ।।१५।।
१५/३२
॥२७३।
१. हस्तादर्श 'स्वतन्त्रलक्षण' इति पाठो नास्ति । २. ...करूपपु...' इति अशुद्धः पाठः मुद्रितप्रतौ ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org