________________
॥ अथेशानुग्रहविचारद्वात्रिंशिका ॥१६॥ सम्यग्दृष्टिनिरूपणाऽनन्तरं तन्निर्वाहकमीशाऽनुग्रहं विचारयति
महेशाऽनुग्रहात्केचिद्योगसिद्धिं प्रचक्षते ।
क्लेशाद्यैरपरामृष्टः पुंविशेषः स चेष्यते ॥१॥ ___ महेशेति । केचित् = पातञ्जलाः महेशाऽनुग्रहात् योगस्योक्तलक्षणस्य सिद्धिं' = योगक्षेमलक्षणां (योगसिद्धिं) प्रचक्षते = प्रकथयन्ति । स च महेशः पुंविशेषः = पुरुषविशेष इष्यते । कीदृश इत्याह-क्लेशाद्यैः = क्लेश-कर्म-विपाकाऽऽशयैः अपरामृष्टः = अस्पृष्टः त्रिष्वपि कालेषु । तथा च सूत्रं- “क्लेशकर्मविपाकाशयैः अपरामृष्टः पुरुषविशेष ईश्वरः” (योगसूत्र १-२४) इति । ___ अत्र क्लेशा अविद्याऽस्मिता-राग-द्वेषाऽभिनिवेशा "वक्ष्यमाणलक्षणाः । ‘क्लेशमूलः कर्माऽऽशयो दृष्टाऽदृष्टजन्मवेदनीयः', अस्मिन्नेव जन्मन्यनुभवनीयो दृष्टजन्मवेदनीयः, जन्मान्त
राऽनुभवनीयस्त्वदृष्टजन्मवेदनीयः । तीव्रसंवेगेन हि 'कृतानि पुण्यानि देवताऽऽराधनादीनि कर्माणि इहैव जन्मनि फलं जात्यायुर्भोगलक्षणं प्रयच्छन्ति, यथा नन्दीश्वरस्य भगवन्महेश्वराऽऽराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादुर्भूताः । न चैतदनुपपत्तिः, १. हस्तादर्श 'सिद्धं' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'कथ...' इति पाठः । ३. मुद्रितप्रतौ 'अस्पृष्टः' इति पदं नास्ति । ४. हस्तादर्श 'भक्ष्य...' इत्यशुद्धः पाठः । ५. हस्तादर्श 'हि तानि' इति पाठः ।
॥२७४।।
१६/१
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org