SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ FF he photo सदनुष्ठानेन प्रतिबन्धकाऽपनयने केदारान्तरे जलाऽऽपूरणवत्पाश्चात्त्यप्रकृत्यापूरणेनैव सिद्धिविशेषोपपत्तेः । तदुक्तं- "जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः' (योगसूत्र ४/१)। सिद्धिश्चोत्कर्षविशेषः कार्यकारणस्य। 'जात्यन्तरपरिणामः प्रकृत्याऽऽपूरात्' (योगसूत्र ४/२) निमित्तमप्रयोजकं प्रकृतीनां 'वरणभेदस्तु ततः क्षेत्रिकवदिति (योगसूत्र ४/३) । “सति मूले तद्विपाको जात्यायु गाः” (योगसूत्र २-१३) । सति मूले = क्लेशरूपबीजे तेषां कुशलाऽकुशलकर्मणां विपाकः = २फलं जात्यायु गा भवन्ति । जातिर्मनुष्यादिः, आयुः = चिरकालं शरीरसम्बन्धः, भोगाः = विषयाः, इन्द्रियाणि, सुखदुःखसंविच्च, कर्मकरणभावसाधनव्युत्पत्त्या भोगशब्दस्य । ___इदमत्र तात्पर्यं- चित्तं हि द्विविधं साशयमनाशयं च । तत्र योगिनामनाशयम् । तदाह-“तत्र ध्यानजमनाशयं" (योगसूत्र ४-६)। अत एव तेषामशुक्लाऽकृष्णं कर्म। तदाह"कर्माऽशुक्लाकृष्णं योगिनः, त्रिविधमितरेषां” (योगसूत्र ४-७) । शुभफलदं कर्म यागादि शुक्लं, अशुभफलदं ब्रह्महत्यादि कृष्णं, उभयसङ्कीर्णं शुक्लकृष्णं । तत्र शुक्लं दान-तपःस्वाध्यायादिमतां पुरुषाणां, कृष्णं नारकाणां, शुक्लकृष्णं मनुष्याणां, योगिनां तु विलक्षणमिति । १. मुद्रितप्रतौ 'चरण...' इत्यशुद्धः पाठः । २. 'जलं' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. मुद्रितप्रतौ 'भोभा' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'तत्र' पदं नास्ति । ५. मुद्रितप्रतौ ‘कर्माऽशुक्लकृष्णमित्यशुद्धः पाठः । ...... चिह्न द्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ६. हस्तादर्श 'शुक्लं मनु...' इत्यशुद्धः पाठः । 1॥२७५।। १६/१ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy