SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ साशयं चित्तमयोगिनां । तत्र फलत्यागाऽनुसन्धानाऽभावात्फलजनकः कर्माशयः । 'ततस्तद्विपाकाऽनुगुणानामेवाऽभिव्यक्तिर्वासनानां' । (योगसूत्र ४/८) द्विविधा हि कर्मवासनाः स्मतिमात्रफला जात्याय गफलाश्च । तत्राऽऽद्या येन कर्मणा यादृक् शरीरमारब्धं देव-मानुष-तिर्यगादिभेदेन जात्यन्तरशतव्यवधानेन पुनस्तथाविधस्यैव शरीरस्याऽऽरम्भे तदनु-रूपामेव स्मृतिं जनयन्ति, अन्यादृशीं च न्यग्भावयन्ति, देवादिभवे नारकादिशरीरोपभोगस्मृतिवत्। ___न चाऽतिव्यवहितयोः स्मृति-संस्कारयोर्जन्यजनकभावानुपपत्तिः, दूराऽनुभूतस्याऽप्यविचलितचित्ते वासनात्मना स्थितस्योद्बोधविशेषसहकारेण स्मृतिविशेषपरिणामे व्यवधानाऽभावात् । तदुक्तं- “जाति-देश-कालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात्" (योगसूत्र ४-९)। ताश्च सुखसाधनाऽवियोगाऽध्यवसायसङ्कल्पस्य मोहलक्षणस्य बीजस्याऽनादित्वादादिरहिताः । तदुक्तं- “तासामनादित्वं, आशिषो नित्यत्वात्" (योगसूत्र ४-१०) । द्वितीया अपि चित्तभूमावेवानादिकालं संचिता यथा यथा पाकमुपयान्ति तथा तथा गणप्रधानभावेन स्थिता जात्यायुर्भोगलक्षणं कार्यमारभन्त इति । तदेतत्कर्माऽऽशयफलं जात्यादिविपाक इति । यद्यपि सर्वेषामात्मनां क्लेशादिपरामर्शो नास्ति, तथापि ते चित्तगतास्तेषां व्यपदिश्यन्ते, यथा योधगतौ जयाऽजयो स्वामिनः । अस्य तु त्रिष्वपि कालेषु तथाविधोऽपि क्लेशादिपरामर्शो १. हस्तादर्श 'द्वितीयाया' इत्यशुद्धः पाठः । २. हस्तादर्श '...दिस्पर्शो' इत्यशुद्धः पाठः । ॥२७६ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy