SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ भy 449 । नास्तीति विलक्षणोऽयमन्येभ्यः ।।१।। ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥२॥ ज्ञानमिति । ज्ञानादयो ह्यत्रा प्रतिपक्षाः सहजाश्च शुद्धसत्त्वस्याऽनादिसम्बन्धात् । यथा हीतरेषां सुख-दुःख-मोहतया विपरिणतं चित्तं निर्मले सात्त्विके धर्मात्मप्रख्ये प्रतिसङ्क्रान्तं चिच्छाया सङ्क्रान्तान्तःसंवेद्यं भवति, नैवमिश्वरस्य, किं तु तस्य केवल एव सात्त्विकः परिणामो भोग्यतया व्यवस्थित इति । किं च प्रकृतिपुरुषसंयोगवियोगयोरीश्वरेच्छाव्यतिरेकेणाऽनुपपत्तेरनादिज्ञानादिमत्त्वमस्य सिद्धम् ।।२।। सात्त्विकः परिणामोऽत्र काष्ठाप्राप्ततयेष्यते । नाऽक्षप्रणालिकाप्राप्त इति सर्वज्ञतास्थितिः ।।३।। सात्त्विक इति । अत्र = ईश्वरे सात्त्विकः परिणामः काष्ठाप्राप्ततया = अत्यन्तोत्कृष्टत्वेन इष्यते । तारतम्यवतां सातिशयानां धर्माणां परमाणावल्पत्वस्येवाऽऽकाशे परममहत्त्वस्येव काष्ठाप्राप्तिदर्शनात् ज्ञानादीनामपि चित्तधर्माणां तारतम्येन परिदृश्यमाणानां क्वचिन्निरतिशयत्वसिद्धेः । न पुनः अक्षप्रणालिकया = इन्द्रियद्वारा प्राप्तः = उपनीतः इति हेतोः सर्वविषयत्वादेतच्चित्तस्य (सर्वज्ञतास्थितिः=) सर्वज्ञतायाः स्थितिः = प्रसिद्धिः । तदुक्तं१. हस्तादर्श 'संक्रान्तः सं....' इति पाठः । २. हस्तादर्श 'प्राप्ता...' इत्यशुद्धः पाठः । का |||२७७। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy