________________
ॐ Pat
व्यतिरेकाऽनुविधानेन तत्प्रवृत्तेः, ज्ञानादीनां कर्मक्षये तदनुविधानात् । न चैवं कर्मक्षयस्य मुक्तित्वाऽभ्युपगमे अपुमर्थत्वं मुक्तेः, द्वेषयोनिप्रवृत्तितः साक्षाद्दुःखहेतुनाशोपायेच्छाविषयत्वेन परमपुरुषार्थत्वाऽविरोधात् ।।२०।।।
दुःखद्वेषे हि तद्धेतून् द्वेष्टि प्राणी नियोगतः ।
जायतेऽस्य प्रवृत्तिश्च ततस्तन्नाशहेतुषु ।।२१।। दुःखद्वेषे हीति । दुःखद्वेषे हि सति प्राणी तळेतून् = दुःखहेतून् नियोगतो = निश्चयतो द्वेष्टि । अस्य = दुःखहेतुद्विषः च ततस्तन्नाशहेतुपु = दुःखोपायनाशहेतुषु ज्ञानादिषु प्रवृत्तिर्जायते, दुःखद्वेषस्य' दुःखहेतुनाशोपायेच्छा-दुःखहेतुद्वेषयोस्तयोश्च दुःखहेतुनाशहेतुप्रवृत्तौ स्वभावतो हेतुत्वात् । अनुस्यूतैकोपयोगरूपत्वेऽपि क्रमाऽनुवेधेन हेतु-हेतुमद्भावाऽविरोधात् ।
क्रमिकाऽक्रमिकोभयस्वभावोपयोगस्य तत्र तत्र व्यवस्थापितत्वात् ।।२१।। इत्थं चाऽत्र 'दुःखं मा भूदि'त्युद्देशे दुःखहेतुनाशविषयकत्वं फलितमित्येतदन्यत्राऽप्यतिदिशन्नाह
अन्यत्राऽप्यसुखं मा भून्माङोऽर्थेऽत्राऽन्वयः स्थितः ।
दुःखस्यैवं समाश्रित्य स्वहेतुप्रतियोगिताम् ॥२२॥ 'अन्यत्रापीति । अन्यत्राऽपि = प्रायश्चित्तादिस्थलेऽपि 'असुखं मा भूत्' अत्र 'माङोऽर्थे ।।५३०।। १. मुद्रितप्रतौ 'दुःखद्वेष्य(षेऽ)स्य...' इत्यशुद्धः पाठः । २. हस्तादर्श हेतुमद्भा...' इति त्रुटितः पाठः । ३. हस्तादर्श 'अत्रत्रा...' इत्यशुद्धः पाठः । ४. हस्तादर्श 'अन्यत्रापीति' इति पाठो नास्ति । ५. हस्तादर्श 'माक्षो' इत्यशुद्धः पाठः।
३१/२२
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org