________________
क्ति
द्वा
शि
का
३१/२०
Jain Education International
व्यङ्गयमावरणोच्छित्त्या सङ्ग्रहेणेष्यते सुखम् ।।१९।।
ऋजुसूत्रादिभिरिति । ऋजुसूत्रादिभिः नयैः ज्ञान-सुखादिपरम्परा मुक्तिरिष्यते, शुद्धनयैस्तैरुत्तरोत्तरविशुद्धपर्यायमात्राऽभ्युपगमात् । ज्ञानादीनां क्षणरूपतायाः क्षणसत्तयाऽपि सिद्धेः, तस्याः क्षणतादात्म्यनियतत्वात्, क्षणस्वरूपे तथादर्शनात् । सङ्ग्रहेण = सङ्ग्रहनयेन आवरणोच्छित्त्या व्यङ्ग्यं सुखं मुक्तिः इष्यते । तद्धि जीवस्य स्वभावः सेन्द्रियदेहाद्यपेक्षाकारणस्वरूपाऽऽवरणेनाऽऽच्छाद्यते, प्रदीपस्याऽपवरकाऽवस्थितपदार्थप्रकाशकत्वस्वभाव इव तदावारकशरावादिना । तदपगमे तु प्रदीपस्येव जीवस्यापि विशिष्टप्रकाशस्वभावोऽयत्नसिद्ध एवेति । शरीराऽभावे ज्ञान - सुखाद्यभावोऽप्रेर्य एव, अन्यथा शरावाद्यभावे प्रदीपादेरभावप्रसङ्गात् ।
'शरावादेः प्रदीपाद्यजनकत्वान्नोक्तप्रसङ्ग' इति चेत् ? न तथाभूतप्रदीपपरिणत्यजनकत्वे शरावादेस्तद'नावारकत्वप्रसङ्गादिति ।।१९।।
क्षयः प्रयत्नसाध्यस्तु व्यवहारेण कर्मणाम् ।
न चैवमपुमर्थत्वं द्वेषयोनिप्रवृत्तितः ।। २० ।।
क्षय इति । व्यवहारेण तु प्रयत्नसाध्यः कर्मणां क्षयो मुक्तिरिष्यते, अन्वय१. हस्तादर्शे 'स्वयम्' इत्यशुद्धः पाठः व्याख्यानुसारेण । २. हस्तादर्शे 'व्यंपि' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'तरना...' इयशुद्धः पाठः । ४. हस्तादर्शे 'चैवपुम...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।। ५२९ ।।
www.jainelibrary.org