________________
ध्वंसे एवम् = उक्तरीत्या दुःखस्य स्वहेतुप्रतियोगितां आश्रित्य (=समाश्रित्य) अन्वयः | स्थितः । तत्पापजन्यदुःखाऽप्रसिद्ध्या तद्ध्वंसस्याऽसाध्यत्वात् ।
अस्तु वा दुःखद्वेषस्यैवाऽयमुल्लेखः ।। मुख्यप्रयोजनविषयकेच्छाविषयत्वेन च मुख्यप्रयोजनत्वमविरुद्धमिति भावः ।।२२।।
स्वतोऽपुमर्थताप्येवमिति चेत् कर्मणामपि ।
शक्त्या चेन्मुख्यदुःखत्वं स्याद्वादे किं नु बाध्यताम् ।।२३।। स्वत इति । एवमपि स्वतोऽपुमर्थता, निरुपधिकेच्छाविषयत्वेन सुख-दुःखहान्यन्यतरस्यैव स्वतः पुमर्थत्वात् इति चेत् ? कर्मणामपि शक्त्या चेन्मुख्यदुःखत्वं तदा स्याद्वादे किं नु बाध्यताम् ? दुःखहेतोरपि कथञ्चिद्दःखत्वात् ।
तेन दुःखक्षयत्वेन रूपेण कर्मक्षयस्य त्वन्नीत्याऽपि मुख्यप्रयोजनत्वाऽनपायाद्रे, रूपान्तरेण तत्त्वस्य चाऽप्रयोजकत्वात् ।।२३।।
स्वतः प्रवृत्तिसाम्राज्यं किं चाऽखण्डसुखेच्छया ।
निराबाधं च वैराग्यमसङ्गे तदुपक्षयात् ॥२४ ।। स्वत इति । किं च स्वतो = निरुपधिकतया प्रवृत्तिसाम्राज्यमखण्डसुखेच्छया अखण्ड
॥५३१।। १. मुद्रितप्रतौ 'मुख्यप्रयोजना विषय...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'तेन' इति पदं नास्ति । ३. मुद्रितप्रतौ '...पायद्' इत्यशुद्धः पाठः । ४. हस्तादर्श '...रेणा' इत्यशुद्धः पाठः ।
१/२४
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org