________________
FE
क
सुखसंवलितत्वात् कर्मक्षयस्य । नन्वेवं सुखेच्छया वैराग्यव्याहतिरित्यत आह- असङ्गे = असङ्गाऽनुष्ठाने तदुपक्षयात् = सुखेच्छाया अपि विरमात् निराबाधं च वैराग्यं “मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः” (योगशतक-२० वृ.उद्धृत) इति वचनात् । न चेदेवं, सुखेच्छया वैराग्यस्येव दुःखद्वेषात् प्रशान्तत्वस्याऽपि व्याहतिरेवेति भाव ।।२४।।
समानाऽऽय-व्ययत्वे च वृथा मुक्तौ परिश्रमः ।
गुणहानेरनिष्टत्वात्ततः सुष्ठूच्यते ह्यदः ।।२५।। समानेति । समानाऽऽयव्ययत्वे च सुख-दुःखाऽभावाभ्यामभ्युपगम्यमाने मुक्तौ वथा परिश्रमः, गणहानेरनिष्टत्वात तदनुविद्धदुःखनाशोपायेऽनिष्टाऽनुबन्धित्वज्ञानेन प्रेक्षावत्प्रवृत्तेरयोगात् । ततो ह्यदः सुष्ठूच्यते ।।२५।।
दुःखाऽभावोऽपि नाऽवेद्यः पुरुषार्थतयेष्यते ।
न हि मूर्छाद्यवस्थाऽर्थं प्रवृत्तो दृश्यते सुधीः ।।२६ ।। दुःखाऽभावोऽपीति । दुःखाऽभावोऽपि न अवेद्यः = स्वसमानाधिकरण-समानकालीनसाक्षात्काराऽविषयः 'पुरुषार्थतयेष्यते । न हि मूर्छाद्यवस्थार्थं सुधीः प्रवृत्तो दृश्यते । अन्यथा 'तु तदर्थमपि प्रवृत्तिः स्यात् ।। ___अतो गुणहानेरनिष्टत्वेन दुःखाऽभावरूपायां मुक्तौ तदर्थप्रवृत्तिव्याघात एव दूषण१. हस्तादर्श ....षयः षार्थ...' इति त्रुटितोऽशुद्धश्च पाठः । २. मुद्रितप्रतिषु 'तु' नास्ति ।
३१/२६
॥॥५३२।।
Jain Education Interational
For Privale & Personal Use Only
www.jainelibrary.org