SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ 79 df has to t क्ति द्वा त्रिं शि का ३१/२८ Jain Education International मिति भावः || २६ ॥ एतेनैतदपास्तं हि पुमर्थत्वेऽप्रयोजकम् । = तज्ज्ञानं दुःखनाशश्च वर्तमानोऽनुभूयते ।। २७ ।। एतेनेति । एतेन गुणहानेरनिष्टत्वेन हि निश्चितं एतदपास्तम् । यदुक्तं महानैयायिकेन 'पुमर्थत्वे तज्ज्ञानं पुमर्थज्ञानं अप्रयोजकं, वर्तमानोऽनुभूयते विनश्यदवस्थेन योगिसाक्षात्कारेणेति ।। २७ ।। गुणहारनिष्टत्वं वैराग्यान्नाऽथ वेद्यते । = दुःखनाशश्च इच्छा - द्वेषौ विना नैवं प्रवृत्तिः सुख-दुःखयोः ।।२८।। गुहारिति । अथ गुणहानेरनिष्टत्वं वैराग्यान्न वेद्यते कामान्धत्वादिव पारदायें बलवद्दुःखाऽनुबन्धित्वम्, ततः प्रवृत्त्यव्याघात इति भावः । एवं सति इच्छा - द्वेषौ विना सुख-दुःखयोः २प्राप्यनाश्ययोरिति शेषः प्रवृत्तिर्न स्यात् । परवैराग्ये `प्रवृत्तिकारणयोस्तयोर्निवृत्तेरपरवैराग्ये च गुणवैतृष्ण्यस्यैवाऽभावाद्, गुणहानेरनिष्टत्वाऽप्रतिसन्धानाऽनुपपत्तेः । गुणहानेरनिष्टत्वे प्रतिसंहिते प्राक्तनप्रवृत्त्यनुपपत्तौ तत्संस्कारतोऽप्यसङ्गप्रवृत्तेर्दुर्वचत्वमिति न किञ्चिदेतत् ॥ २८ ॥ १. हस्तादर्शे 'द्वेष' इत्यशुद्धः पाठः । २ हस्तादर्शे 'प्राप्य नाश्ययो 'रिति नास्ति । ३ मुद्रितप्रती प्रवृतिकरण...' इत्यशुद्धः पाठः । ४. मुद्रितप्रती 'वैतृष्णस्य' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।५३३ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy