SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ 79 df has to t क्ति द्वा त्रिं शि का ३१/२८ Jain Education International मिति भावः || २६ ॥ एतेनैतदपास्तं हि पुमर्थत्वेऽप्रयोजकम् । = तज्ज्ञानं दुःखनाशश्च वर्तमानोऽनुभूयते ।। २७ ।। एतेनेति । एतेन गुणहानेरनिष्टत्वेन हि निश्चितं एतदपास्तम् । यदुक्तं महानैयायिकेन 'पुमर्थत्वे तज्ज्ञानं पुमर्थज्ञानं अप्रयोजकं, वर्तमानोऽनुभूयते विनश्यदवस्थेन योगिसाक्षात्कारेणेति ।। २७ ।। गुणहारनिष्टत्वं वैराग्यान्नाऽथ वेद्यते । = दुःखनाशश्च इच्छा - द्वेषौ विना नैवं प्रवृत्तिः सुख-दुःखयोः ।।२८।। गुहारिति । अथ गुणहानेरनिष्टत्वं वैराग्यान्न वेद्यते कामान्धत्वादिव पारदायें बलवद्दुःखाऽनुबन्धित्वम्, ततः प्रवृत्त्यव्याघात इति भावः । एवं सति इच्छा - द्वेषौ विना सुख-दुःखयोः २प्राप्यनाश्ययोरिति शेषः प्रवृत्तिर्न स्यात् । परवैराग्ये `प्रवृत्तिकारणयोस्तयोर्निवृत्तेरपरवैराग्ये च गुणवैतृष्ण्यस्यैवाऽभावाद्, गुणहानेरनिष्टत्वाऽप्रतिसन्धानाऽनुपपत्तेः । गुणहानेरनिष्टत्वे प्रतिसंहिते प्राक्तनप्रवृत्त्यनुपपत्तौ तत्संस्कारतोऽप्यसङ्गप्रवृत्तेर्दुर्वचत्वमिति न किञ्चिदेतत् ॥ २८ ॥ १. हस्तादर्शे 'द्वेष' इत्यशुद्धः पाठः । २ हस्तादर्शे 'प्राप्य नाश्ययो 'रिति नास्ति । ३ मुद्रितप्रती प्रवृतिकरण...' इत्यशुद्धः पाठः । ४. मुद्रितप्रती 'वैतृष्णस्य' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।५३३ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy