SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ 24 ननु श्रुतिबाधान्न मुक्तौ सुखसिद्धिरित्यत आह अशरीरं वाव सन्तमित्यादिश्रुतितः पुनः । सिद्धो हन्त्युभयाऽभावो नैकसत्तां यतः स्मृतम् ।।२९॥ अशरीरमिति। 'अशरीरं वाव सन्तमि'त्यादिश्रुतितः = 'अशरीरं वाव सन्तं प्रियाऽप्रिये न स्पृशतः' (छान्दोपनिषद् ८/१२/१) इति श्रुतेः पुनरुभयाऽभावः सुख-दुःखोभयाऽभावः सिद्धः, एकसत्तां = सुखसत्तां न हन्ति, एकवत्यपि द्वित्वाऽवच्छिन्नाऽभावप्रत्ययात् । अस्तु वा तत्राऽप्रियपदसन्निधानात् प्रियपदस्य वैषयिकसुखपरत्वमेवेत्यपि द्रष्टव्यम् । यतः स्मृतम् ।।२९।। सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयादुष्षापमकृतात्मभिः ॥३०॥ सुखमिति । स्पष्टः ।।३०।। उपचारोऽत्र नाऽबाधात् साक्षिणी चाऽत्र दृश्यते । 'नित्यं विज्ञानमानन्दं ब्रह्मे'त्यप्यपरा श्रुतिः ॥३१ ।। उपचार इति । अत्र = मुक्तिसुखप्रतिपादिकायामुक्तस्मृतौ उपचारो न दुःखाऽभावे ॥५३४।। सुखपदस्य लाक्षणिकत्वं, अबाधाद = बाधाऽभावात् । १. हस्तादर्श 'सविधानात्' इत्यशुद्धः पाठः । २. हस्तादर्श 'नाबा...' इत्यशुद्धः पाठः । ३१/३१ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy