SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ F क्षिप्त्वा दोषान्तरं दद्यात्स्वश्रुतार्थं परश्रुते । व्याक्षेपे 'वोच्यमानेऽस्मिन्मार्गाप्तौ दूषयेददः ।।११।। क्षिप्त्वेति । स्वश्रुतार्थं परश्रुते क्षिप्त्वा तत्र दोषान्तरं दद्यात् यथा स्वश्रुतस्य दाढयं भवति परश्रुतस्य चाप्रतिपत्तिरिति । तथाहि- यथाऽस्माकमहिंसादिलक्षणो धर्मः साङ्ख्यादीनामप्येवम्, 'हिंसा' नाम भवेद्धर्मो न भूतो न भविष्यति' ( ) इत्यादिवचनात् । किं त्वसावपरिणामिन्यात्मनि न युज्यते, एकान्तनित्यानित्ययोर्हिसाया अभावादिति । वा = अथवा अस्मिन् = परश्रुते उच्यमाने शोभनोह' शालिनः श्रोतुः व्याक्षेपे मार्गाभिमुख्यलक्षणे जाते (मार्गाऽऽप्ते) अदः = परश्रुतं दूषयेत्। इत्थं हि दूषणार्थं केवलस्याऽपि तस्य कथनं प्राप्तम् । तदिदमुक्तं- “जा 'ससमएण पुब्बिं अक्खाया तं छुभेज्ज परसमए । परसासणवक्खेवा परस्स समयं परिकहेइ ।।" (दशवकालिक नियुक्ति-३।१९८) ।।११।। श्रोतुः परसमयदूषणे माध्यस्थ्यं ज्ञात्वैव विक्षेपणी कथनीयेति फलितमाह कटुकौषधपानाभा कारयित्वा रुचिं सता । इयं देयान्यथा सिद्धिर्न स्यादिति विदुर्बुधाः ।।१२।। १. मुद्रितप्रतौ 'चोच्यमाने' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्येवं हिंसा नाम' इति नास्ति । ३. मुद्रितप्रतौ 'शोभनोऽहं शालिन' इत्यशुद्धः पाठः । ४. हस्तादर्श 'जा सम...' इत्यशुद्धः त्रुटित: पाठः । ५. सर्वमुद्रितप्रतौ 'कटुकौषधपानाभां' इत्यशुद्धः पाठः । केवलं पाटण-ज्ञानभाण्डागरीयहस्तप्रतौ प्रकृतः शुद्धः पाठो वर्तते । अन्यहस्तादर्श च 'कटुपकौष...' इत्यशुद्धः पाठो वर्तते । ९/१२ १६०। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy