________________
कहित्ता पच्छा अत्थित्तपक्खवादीणं दिट्ठीओ कहेइ, एसा ततिआ विक्खेवणी गया । ___ इदाणं चउत्था विक्खेवणी सा वि एवं चेव, णवरं पुब्बिं सोभणे कहेइ पच्छा इतरेत्ति' । एवं विक्खिवइ सोयारं" (दशवैकालिक वृद्धविवरण अध्य.३)। इयं च ऋजोः = मुग्धस्य मार्गाऽऽभिमुख्यहृत् = स्वरूपतो मार्गरुचिहर्जी ।।९।।
अतिप्रसिद्धसिद्धान्तशून्या लोकादिगा हि सा । ___ ततो दोषदृशाशङ्का स्याद्वा मुग्धस्य तत्त्वधीः ।।१०।। अतिप्रसिद्धेति । हि = यतः सा विक्षेपणी । अतिप्रसिद्ध आचारादिवत्साम्प्रतमपि प्रसिद्धो यः सिद्धान्तस्तच्छून्या (=अतिप्रसिद्धसिद्धान्तशून्या), अन्यथा हि विधि-प्रतिषेधद्वारेण विश्वव्यापकत्वात् स्वसिद्धान्तस्य तच्छून्यकथाया एवाऽप्रसिद्धिः । लोकपदार्थो रामायणादिः, आदिना वेदसाङ्ख्य-शाक्यसिद्धान्तादिग्रहः, तेषु गच्छतीति लोकादिगा । तत = उक्तहेतोर्ऋजुमते रामायणादिकथायां श्रूयमाणायां कथकदत्तया दोषदृशा “अहो मत्सरिण एते" इत्येवंरूपा शङ्का स्याद् (मुग्धस्य =) एकेन्द्रियप्रायस्य ।
स्याद्वा तत्र शोभनाऽर्थश्रवणाद् ‘इयमपि प्रमाणमेवेति तत्त्वधीः अचिरेण सिद्धान्तप्रामाण्यधीविरोधिनी ।।१०।।।
अस्या अकथने प्राप्ते विधिमाह - १. हस्तादर्श ‘इतरेति' इति पाठः । २. 'दृगा' इति मुद्रितप्रतौ पाठः । ३. हस्तादर्श '...माणां' इति पाठः । स चाशुद्धः । हस्तादर्शान्तरे च '..यमा' इति त्रुटितः पाठः ।
||१५९।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org