________________
जर
मीमांसा दीपिका चाऽस्यां मोहध्वान्तविनाशिनी ।
तत्त्वाऽऽलोकेन तेन स्यान्न कदाप्यसमञ्जसम् ॥१६॥ मीमांसेति । मीमांसा = सद्विचारणा दीपिका चाऽस्यां = कान्तायां मोहध्वान्तविनाशिनी= अज्ञानतिमिराऽपहारिणी तत्त्वाऽऽलोकेन = परमार्थप्रकाशेन । तेन कारणेन न कदाप्यसमञ्जसं स्यात् । अज्ञाननिमित्तको हि तद्भाव इति ।।१६।।
ध्यानसारा प्रभा तत्त्वप्रतिपत्तियुता रुजा ।
वर्जिता च विनिर्दिष्टा सत्प्रवृत्तिपदाऽऽवहा ॥१७॥ ध्यानेति । (ध्यानसारा =) ध्यानेन सारा = रुचिरा प्रभा, तत्त्वप्रतिपत्त्या यथास्थिताऽऽत्माऽनुभवलक्षणया युता, (=तत्त्वप्रतिपत्तियुता) रुजा वर्जिता, वक्ष्यमाणलक्षणसत्प्रवृत्तिपदाऽऽवहा' च विनिर्दिष्टा ।।१७।।
चित्तस्य धारणादेशे प्रत्ययस्यैकतानता ।
ध्यानं ततः सुखं सारमात्माऽऽयत्तं प्रवर्तते ॥१८॥ चित्तस्येति । चित्तस्य = मनसो धारणादेशे = धारणाविषये प्रत्ययस्यैकतानता विसदृशपरिणामपरिहारेण सदृशपरिणामधाराबन्धो = ध्यानम् । यदाह- “तत्र प्रत्ययैकतानता ध्यानं" इति (योगसूत्र ३-२) । ततः = तस्मात् सुखं सारं = उत्कृष्टं आत्माऽऽयत्तं १. हस्तादर्श '...त्तिपदा' इति त्रुटितः पाठः ।
२४/१८
।।४२२॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org