SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ I how & to t इत्युदाहरणोपन्यासार्थः तिष्ठत्यसंशयं = तिष्ठत्येव जलबुद्धिसमारोपात्' । (तथा) मोक्षमार्गेऽपि हि ज्ञानादिलक्षणे तिष्ठत्यसंशयं भोगजम्बालमोहितो = भोगनिबन्धनदेहादिप्रपञ्चमोहित इत्यर्थः ।।१४।। धर्मशक्तिं न हन्त्यस्यां भोगशक्तिर्बलीयसीम् । हन्ति दीपापहो वायुर्व्वलन्तं न वानलम् ।।१५।। धर्मशक्तिमिति । अस्यां = कान्तायां कर्माऽऽक्षिप्तत्वेन निर्बला भोगशक्तिः अनवरतस्वरसप्रवृत्तत्वेन बलीयसी धर्मशक्तिं न हन्ति, विरोधिनोऽपि निर्बलस्याऽकिञ्चित्करत्वात् । अत्र दृष्टान्तमाह- दीपाऽपहो = दीपविनाशको वायुर्व्वलन्तं दवानलं न हन्ति । प्रत्युत बलीयसस्तस्य सहायतामेवाऽऽलम्बते । इत्थमत्र धर्मशक्तेरपि बलीयस्या अवश्यभोग्यकर्मक्षये भोगशक्तिः सहायतामेवाऽऽलम्बते । ___ न तु निर्बलत्वेन तां विरुणद्धीति । यद्यपि स्थिरायामपि ज्ञानाऽपेक्षया भोगानामकिञ्चित्करत्वमेव, तथापि तदा(द)शे प्रमादसहकारित्वमपि तेषाम् । कान्तायां तु धारणया ज्ञानोत्कर्षान्न तथात्वमपि तेषाम् । 'गृहिणामप्येवंविधदशायामुपचारतो यतिभाव एव । चारित्रमोहोदयमात्रात्केवलं न संयमस्थानलाभः । न तु तद्विरोधिपरिणामलेशतोऽपीत्याचार्याणामाशयः ।।१५।। २४/१५ ४२१।। १. मुद्रितप्रतो'...समावेशात्' इति पाठः । २. हस्तादर्श'..यसी शध' इत्यशुद्धः पाठः । १. मुद्रितप्रती 'गृहिणो' इति पाठः । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy