SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ E how to learn ।। = मायाम्भसो द्रुतं = शीघ्रं तन्मध्येन = मायाम्भोमध्येन प्रयात्येव, न न प्रयाति। यथा | इत्युदाहरणोपन्यासार्थः। व्याघातवर्जितो, मायाम्भसस्तत्त्वेन व्याघाताऽसमर्थत्वात्।।११।। भोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुजानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् ।।१२।। भोगानिति । भोगान् = इन्द्रियाऽर्थसम्बन्धान स्वरूपतः पश्यन् समारोपमन्तरेण तथा = तेनैव प्रकारेण मायोदकोपमान = असारान् भुञ्जानोऽपि हि कर्माऽऽक्षिप्तान् असङ्गः' सन् प्रयात्येव परं पदं तथाऽनभिष्वङ्गतयाऽपरवशभावात् ।।१२।। भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् । मायोदकदृढाऽऽवेशस्तेन यातीह कः पथा ।।१३।। का भोगेति । भोगतत्त्वस्य तु = भोगं परमार्थतया पश्यतस्तु (पुनः) न भवोदधिलङ्घनम् । २४/१४॥ मायोदकदृढाऽऽवेशः तथाविपर्यासात् तेन यातीह कः पथा यत्र मायायामुदकबुद्धिः ।।१३।। स तत्रैव भयोद्विग्नो यथा तिष्ठत्यसंशयम् । मोक्षमार्गेऽपि हि तथा भोगजम्बालमोहितः ।।१४।। स इति । स = मायायामुदकदृढाऽऽवेशः तत्रैव पथि भयोद्विग्नः सन् यथा १. हस्तादर्श 'असंगतः' इत्यशुद्धः पाठः । २. हस्तप्रतो मुद्रितप्रतौ च 'भवो...' इति पाठः । परं व्याख्यानुसारेण सन्दर्भानुसारेण च 'भयो..' इति पाठः शुद्धः । ३. मुद्रितप्रती '...दकसमावेश' इत्यशुद्धः पाठः । ४. मुद्रितप्रती 'भवो...' इत्यशन्द्रः पाठः । हस्तादर्श 'भयो...' इति शुद्धः पाठः । ॥४२०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy